Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 4
    ऋषिः - परमेष्ठी ऋषिः देवता - रुद्रो देवता छन्दः - निचृदार्ष्यनुस्टुप् स्वरः - गान्धारः
    5

    शि॒वेन॒ वच॑सा॒ त्वा॒ गिरि॒शाच्छा॑ वदामसि। यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्म सु॒मना॒ऽअस॑त्॥४॥

    स्वर सहित पद पाठ

    शि॒वेन॑। वच॑सा। त्वा॒। गिरि॒शेति॒ गिरि॑ऽश। अच्छ॑। व॒दा॒म॒सि॒। यथा॑। नः॒। सर्व॑म्। इत्। जग॑त्। अ॒य॒क्ष्मम्। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अस॑त् ॥४ ॥


    स्वर रहित मन्त्र

    शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मँ सुमना असत् ॥


    स्वर रहित पद पाठ

    शिवेन। वचसा। त्वा। गिरिशेति गिरिऽश। अच्छ। वदामसि। यथा। नः। सर्वम्। इत्। जगत्। अयक्ष्मम्। सुमना इति सुऽमनाः। असत्॥४॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 4
    Acknowledgment

    अन्वयः - हे गिरिश रुद्र वैद्यराज! सुमनास्त्वं यथा नः सर्वं जगदयक्ष्ममसत् तथेच्छिवेन वचसा त्वा वयमच्छ वदामसि॥४॥

    पदार्थः -
    (शिवेन) कल्याणकारकेण (वचसा) वचनेन (त्वा) त्वाम् (गिरिश) यो गिरिषु पर्वतेषु मेघेषु वा शेते तत्सम्बुद्धौ (अच्छ) सम्यक्। निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः। (वदामसि) वदेम (यथा) (नः) अस्माकम् (सर्वम्) (इत्) एव (जगत्) मनुष्यादिकं जङ्गमं राज्यम् (अयक्ष्मम्) यक्ष्मादिरोगरहितम् (सुमनाः) शोभनम् मनो यस्य सः (असत्) स्यात्॥४॥

    भावार्थः - अत्रोपमालङ्कारः। यो वैद्यकशास्त्रमधीत्य पर्वतादिषु स्थिता ओषधीरपो वा सुपरीक्ष्य सर्वेषां कल्याणाय निष्कपटित्वेन रोगान् निवार्य्य प्रियस्वरूपया वाचा वर्त्तेत तं वैद्यं सर्वे सत्कुर्युः॥४॥

    इस भाष्य को एडिट करें
    Top