Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 8
    ऋषिः - प्रजापतिर्ऋषिः देवता - रुद्रो देवता छन्दः - निचृदार्ष्यनुस्टुप् स्वरः - गान्धारः
    5

    नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑। अथो॒ येऽअ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑॥८॥

    स्वर सहित पद पाठ

    नमः॑। अ॒स्तु॒। नील॑ग्रीवा॒येति॒ नील॑ऽग्रीवाय। स॒ह॒स्रा॒क्षायेति॑ सहस्रऽअ॒क्षाय॑। मी॒ढुषे॑। अथो॒ऽइत्यथो॑। ये। अ॒स्य॒। सत्वा॑नः। अ॒हम्। तेभ्यः॑। अ॒क॒र॒म्। नमः॑ ॥८ ॥


    स्वर रहित मन्त्र

    नमोस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो येऽअस्य सत्वानोहन्तेभ्यो करन्नमः ॥


    स्वर रहित पद पाठ

    नमः। अस्तु। नीलग्रीवायेति नीलऽग्रीवाय। सहस्राक्षायेति सहस्रऽअक्षाय। मीढुषे। अथोऽइत्यथो। ये। अस्य। सत्वानः। अहम्। तेभ्यः। अकरम्। नमः॥८॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 8
    Acknowledgment

    अन्वयः - नीलग्रीवाय सहस्राक्षाय मीढुषे सेनापतये मद्दत्तं नमोऽस्तु। अथो येऽस्य सत्वानः सन्ति, तेभ्योऽपि नमोऽहमकरं निष्पादयेयम्॥८॥

    पदार्थः -
    (नमः) अन्नम् (अस्तु) भवतु (नीलग्रीवाय) शुद्धकण्ठस्वराय (सहस्राक्षाय) सहस्रेषु भृत्येष्वक्षिणी यस्य तस्मै (मीढुषे) वीर्यवते (अथो) अनन्तरम् (ये) (अस्य) सेनापतेरधिकारे (सत्वानः) सत्त्वगुणबलोपेताः (अहम्) प्रजासेनापालनाधिकारेऽधिकृतोऽमात्यः (तेभ्यः) (अकरम्) कुर्याम् (नमः) पुष्कलमन्नादिकम्॥८॥

    भावार्थः - सभापत्यादिभिरन्नाद्येन यादृशः सत्कारः सेनापतेः क्रियते, तादृगेव सेनास्थानां भृत्यानामपि कर्त्तव्यः॥८॥

    इस भाष्य को एडिट करें
    Top