Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 10
    ऋषिः - प्रजापतिर्ऋषिः देवता - अन्तरिक्षादयो देवताः छन्दः - स्वराड् गायत्री स्वरः - षड्जः
    6

    कृ॒ष्णा भाै॒मा धू॒म्राऽआ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः॥१०॥

    स्वर सहित पद पाठ

    कृ॒ष्णाः। भौ॒माः। धू॒म्राः। आ॒न्त॒रि॒क्षाः। बृ॒हन्तः॑। दि॒व्याः। श॒बलाः॑। वै॒द्यु॒ताः। सि॒ध्माः। ता॒र॒काः ॥१० ॥


    स्वर रहित मन्त्र

    कृष्णा भौमा धूम्रा आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास्तारकाः ॥


    स्वर रहित पद पाठ

    कृष्णाः। भौमाः। धूम्राः। आन्तरिक्षाः। बृहन्तः। दिव्याः। शबलाः। वैद्युताः। सिध्माः। तारकाः॥१०॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 10
    Acknowledgment

    अन्वयः - हे मनुष्याः! युष्माभिर्ये कृष्णास्ते भौमाः। ये धूम्रास्त आन्तरिक्षाः। ये दिव्या बृहन्तः शबलास्ते वैद्युताः। ये सिध्मास्ते च तारका विज्ञेयाः॥१०॥

    पदार्थः -
    (कृष्णाः) कृष्णवर्णाः विलेखननिमित्ता वा (भौमाः) भूमिदेवताकाः (धूम्राः) धूम्रवर्णाः (आन्तरिक्षाः) अन्तरिक्षदेवताकाः (बृहन्तः) वर्धकाः (दिव्याः) दिव्यगुणकर्मस्वभावाः (शबलाः) किंचिच्छ्वेताः (वैद्युताः) विद्युद्देवताकाः (सिध्माः) मङ्गलकारिणः (तारकाः) दुःखस्य पारे कारिणः॥१०॥

    भावार्थः - यदि मनुष्याः कर्षणादिकार्यसाधकान् पश्वादिपदार्थन् भूम्यादिषु संयोजयेयुस्तर्हि ते मङ्गलमाप्नुयुः॥१०॥

    इस भाष्य को एडिट करें
    Top