यजुर्वेद - अध्याय 24/ मन्त्र 16
ऋषिः - प्रजापतिर्ऋषिः
देवता - अग्न्यादयो देवताः
छन्दः - शक्वरी
स्वरः - धैवतः
3
अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्यः॑ सान्तप॒नेभ्यः॑ सवा॒त्यान् म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान् म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ सꣳसृ॒ष्टान् म॒रुद्भ्यः॒ स्वत॑वद्भ्योऽनुसृ॒ष्टान्॥१६॥
स्वर सहित पद पाठअ॒ग्नये॑। अनी॑कवत॒ इत्यनी॑कऽवते। प्र॒थ॒म॒जानिति॑ प्रथम॒ऽजान्। आ। ल॒भ॒ते॒। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। सा॒न्त॒प॒नेभ्य॒ इति॑ साम्ऽतप॒नेभ्यः॑। स॒वा॒त्यानिति॑ सऽवा॒त्यान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। गृ॒ह॒मे॒धिभ्य॒ इति॑ गृहऽमे॒धिभ्यः॑। बष्कि॑हान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। क्री॒डिभ्य॒ इति॑ क्री॒डिऽभ्यः॑। स॒ꣳसृ॒ष्टानिति॑ सम्ऽमृ॒ष्टान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। स्वत॑वद्भ्य॒ इति॒ स्वत॑वत्ऽभ्यः। अ॒नु॒सृ॒ष्टानित्य॑नुऽसृ॒ष्टान् ॥१६ ॥
स्वर रहित मन्त्र
अग्नये नीकवते प्रथमजाना लभते मरुद्भ्यः सान्तपनेभ्यः सवात्यान्मरुद्भ्यो गृहमेधिभ्यो बष्किहान्मरुद्भ्यः क्रीडिभ्यः सँसृष्टान्मरुद्भ्यः स्वतवद्भ्यो नुसृष्टान् ॥
स्वर रहित पद पाठ
अग्नये। अनीकवत इत्यनीकऽवते। प्रथमजानिति प्रथमऽजान्। आ। लभते। मरुद्भ्य इति मरुत्ऽभ्यः। सान्तपनेभ्य इति साम्ऽतपनेभ्यः। सवात्यानिति सऽवात्यान्। मरुद्भ्य इति मरुत्ऽभ्यः। गृहमेधिभ्य इति गृहऽमेधिभ्यः। बष्किहान्। मरुद्भ्य इति मरुत्ऽभ्यः। क्रीडिभ्य इति क्रीडिऽभ्यः। सꣳसृष्टानिति सम्ऽमृष्टान्। मरुद्भ्य इति मरुत्ऽभ्यः। स्वतवद्भ्य इति स्वतवत्ऽभ्यः। अनुसृष्टानित्यनुऽसृष्टान्॥१६॥
विषयः - पुनः कस्मै के रक्षणीय इत्याह॥
अन्वयः - हे मनुष्या यथा विद्वांसोऽनीकवतेऽग्नये प्रथमजान् सान्तपनेभ्यो मरुद्भ्यः सवात्यान् गृहमेधिभ्यो मरुद्भ्यो बष्किहान् क्रीडिभ्यो मरुद्भ्यः संसृष्टान् स्वतवद्भ्यो मरुद्भ्योऽनुसृष्टानालभते तथैव यूयमेतानालभध्वम्॥१६॥
पदार्थः -
(अग्नये) पावक इव वर्त्तमानाय सेनापतये (अनीकवते) प्रशंसितसेनाय (प्रथमजान्) प्रथमाद्विस्तीर्णात् कारणादुत्पन्नान् (आ) (लभते) (मरुद्भ्यः) वायुवद्वर्त्तमानेभ्यो मनुष्येभ्यः (सान्तपनेभ्यः) सम्यक् तपनं ब्रह्मचर्य्याद्याचरणं येषान्तेभ्यः (सवात्यान्) समानवाते भवान् (मरुद्भ्यः) प्राण इव प्रियेभ्यः (गृहमेधिभ्यः) गृहस्थेभ्यः (बष्किहान्) चिरप्रसूतान् (मरुद्भ्यः) (क्रीडिभ्यः) प्रशंसितक्रीडेभ्यः (संसृष्टान्) सम्यग्गुणयुक्तान् (मरुद्भ्यः) मनुष्येभ्यः (स्वतवद्भ्यः) स्वतो वासो येषान्तेभ्यः (अनुसृष्टान्) अनुषङ्गिणः॥१६॥
भावार्थः - यथा विद्वद्भिर्विद्यार्थिनः पशवश्च पाल्यन्ते, तथैवेतरैर्मनष्यैः पालनीयाः॥१६॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal