अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 15
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते। स॑मु॒द्रो यस्य॑ ना॒ड्यः पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । अ॒मृत॑म् । च॒ । मृ॒त्यु: । च॒ । पुरु॑षे । अधि॑ । स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते । स॒मु॒द्र: । यस्य॑ । ना॒ड्य᳡: । पुरु॑षे । अधि॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१५॥
स्वर रहित मन्त्र
यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते। समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । अमृतम् । च । मृत्यु: । च । पुरुषे । अधि । समाहिते इति सम्ऽआहिते । समुद्र: । यस्य । नाड्य: । पुरुषे । अधि । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 15
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(यत्र) जिस [परमेश्वर] में (पुरुषे अधि) मनुष्य के निमित्त (मृत्युः) मृत्यु [आलस्य आदि] (च च) और (अमृतम्) अमरपन आदि [पुरुषार्थ] (समाहिते) दोनों यथावत् स्थापित हैं। (समुद्रः) समुद्र [अन्तरिक्ष, अवकाश] (यस्य) जिसकी (समाहिताः) यथावत् स्थापित (नाड्यः) नाड़ियों [के समान] (पुरुषे अधि) मनुष्य के लिये हैं, (सः) वह (कतमः स्वित्) कौनसा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१५॥
भावार्थ - परमेश्वर ने मनुष्य के लिये मृत्यु के कारण आलस्य आदि का निषेध और अमरपन अर्थात् पुरुषार्थ आदि की विधि, और कार्य करने को अन्तरिक्ष वा अवकाश स्थापित किया है ॥१५॥
टिप्पणी -
१५−(यत्र) यस्मिन् परमात्मनि (अमृतम्) अमरत्वं पौरुषादिकम् (च च) (मृत्युः) मरणकारणमालस्यादिकम् (पुरुषे) मनुष्यनिमित्ते (अधि) सप्तम्यर्थानुवादी (समाहिते) सस्यक् स्थापिते (समुद्रः) अन्तरिक्षम्-निघ० १।३ (यस्य) (नाड्यः) नाड्यो यथा (पुरुषे) (अधि) अन्यत् पूर्ववत् ॥