अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 18
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । शिर॑: । वै॒श्वा॒न॒र: । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । अङ्गा॑नि । यस्य॑ । या॒तव॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म॒: । स्वि॒त् । ए॒व । स: ॥७.१८॥
स्वर रहित मन्त्र
यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन्। अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । शिर: । वैश्वानर: । चक्षु: । अङ्गिरस: । अभवन् । अङ्गानि । यस्य । यातव: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 18
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(यस्य) जिस [परमेश्वर] के (शिरः) शिर [के तुल्य] (वैश्वानरः) सब नरों का हितकारी गुण [है], (चक्षुः) नेत्र [के तुल्य] (अङ्गिरसः) अनेक ज्ञान (अभवन्) हुए हैं। (यस्य) जिसके (अङ्गानि) अङ्गों [के समान] (यातवः) प्रयत्न हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१८॥
भावार्थ - मनुष्य परमात्मा को सर्वहितकारी, सर्वज्ञ और परम पुरुषार्थयुक्त जानकर उन्नति करे ॥१८॥
टिप्पणी -
१८−(यस्य) (शिरः) मस्तकं यथा (वैश्वानरः) अ० १।१०।४। सर्वनरहितो गुणः (चक्षुः) (अङ्गिरसः) अ० २।१२।४। सर्वनरहितो गुणः (चक्षुः) (अङ्गिरसः) अ० २।१२।४। अगि गतौ-असि, इरुडागमः। बोधाः। ज्ञानानि (अभवन्) (अङ्गानि) (यातवः) कृवापाजि०। उ० १।१। यती प्रयत्ने-उण्। प्रयत्नाः। अन्यत् पूर्ववत् ॥