अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 37
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यो अ॑नि॒ध्मोदी॒दय॑द॒प्स्वन्तर्यं विप्रा॑स॒ ईड॑ते अध्व॒रेषु॑। अपां॑ नपा॒न्मधु॑मतीर॒पोदा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्यावान् ॥
स्वर सहित पद पाठय: । अ॒नि॒ध्म: । दी॒दय॑त् । अ॒प्ऽसु । अ॒न्त: । यम् । विप्रा॑स: । ईड॑ते । अ॒ध्व॒रेषु॑ । अपा॑म् । न॒पा॒त् । मधु॑ऽमती: । अ॒प: । दा॒: । याभि॑: । इन्द्र॑: । व॒वृ॒धे । वी॒र्य᳡वान् ॥१.३७॥
स्वर रहित मन्त्र
यो अनिध्मोदीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु। अपां नपान्मधुमतीरपोदा याभिरिन्द्रो वावृधे वीर्यावान् ॥
स्वर रहित पद पाठय: । अनिध्म: । दीदयत् । अप्ऽसु । अन्त: । यम् । विप्रास: । ईडते । अध्वरेषु । अपाम् । नपात् । मधुऽमती: । अप: । दा: । याभि: । इन्द्र: । ववृधे । वीर्यवान् ॥१.३७॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 37
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(यः) जो [परमेश्वर] (अनिध्मः) बिना चमकता हुआ [अन्तर्यामी] रहकर (अप्सु अन्तः) प्रजाओं के भीतर (दीदयत्) चमकता है, (यम्) जिस [परमेश्वर] की, (विप्रासः) बुद्धिमान् लोग (अध्वरेषु) सन्मार्ग बतानेवाले व्यवहारों में, (ईडते) बड़ाई करते हैं, [सो तू] (अपाम्) प्रजाओं के मध्य (नपात्) नाशरहित [परमेश्वर !] (मधुमतीः) मधु विद्या सेयुक्त [पूर्ण विज्ञानवती] (अपः) प्रजाएँ (दाः) दे, (याभिः) जिन [प्रजाओं] से (इन्द्रः) बड़ा ऐश्वर्यवान् मनुष्य (वीर्यवान्) वीर्यवान् [धीर, वीर, शरीर, इन्द्रिय, और मन की अतिशय शक्तिवाला] होकर (वावृधे) बढ़ता है ॥३७॥
भावार्थ - वधू-वर को उचित है किविद्वानों के समान सर्वान्तर्यामी सर्वनियन्ता परमात्मा की उपासना करकेब्रह्मचर्यादि से विद्वान् सन्तान, सेवक आदि प्राप्त करें और वेदविद्या द्वाराबढ़ाकर सदा उन्नति करते रहें ॥३७॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।३०।४, और निरुक्त १०।१९ में भी व्याख्यात है ॥
टिप्पणी -
३७−(यः) परमेश्वरः (अनिध्मः) अप्रकाशः।अन्तर्यामी सन् (दीदयत्) दीप्यते (अप्सु) आपः=आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७। प्रजासु (अन्तः) मध्ये (यम्) परमेश्वरम् (विप्रासः) मेधाविनः (ईडते)स्तुवन्ति (अध्वरेषु) अध्वन्+रा दाने-क। सन्मार्गदातृषु व्यवहारेषु (अपाम्)प्रजानां मध्ये (नपात्) अपतनशील। अविनाशिन् (मधुमतीः) मधुविद्यया पूर्णविज्ञानेनयुक्ताः (अपः) प्रजाः (दाः) देहि (याभिः) प्रजाभिः (इन्द्रः) परमैश्वर्यवान्मनुष्यः (वावृधे) वर्धते (वीर्यवान्) वीरकर्मयुक्तः सन् ॥