अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 15
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यत्ते॑ क्लो॒मा यद्धृद॑यं पुरी॒तत्स॒हक॑ण्ठिका। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयत् । ते॒ । क्लो॒मा । यत् । हृद॑यम् । पु॒रि॒ऽतत् । स॒हऽक॑ण्ठिका । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१५॥
स्वर रहित मन्त्र
यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयत् । ते । क्लोमा । यत् । हृदयम् । पुरिऽतत् । सहऽकण्ठिका । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 15
Subject - Shataudana Cow
Meaning -
Let that which is your lungs, your heart, your pericardium with all the throat area yield curd and cheese, milk, ghrta and the honey sweets of life’s nourishments for the generous giver.