अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 13
भ॒सदा॑सीदादि॒त्यानां॒ श्रोणी॑ आस्तां॒ बृह॒स्पतेः॑। पुच्छं॒ वात॑स्य दे॒वस्य॒ तेन॑ धूनो॒त्योष॑धीः ॥
स्वर सहित पद पाठभ॒सत् । आ॒सी॒त् । आ॒दि॒त्याना॑म् । श्रोणी॒ इति॑ । आ॒स्ता॒म् । बृह॒स्पते॑: । पुच्छ॑म् । वात॑स्य । दे॒वस्य॑ । तेन॑ । धू॒नो॒ति॒ । ओष॑धी: ॥४.१३॥
स्वर रहित मन्त्र
भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः। पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः ॥
स्वर रहित पद पाठभसत् । आसीत् । आदित्यानाम् । श्रोणी इति । आस्ताम् । बृहस्पते: । पुच्छम् । वातस्य । देवस्य । तेन । धूनोति । ओषधी: ॥४.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 13
Subject - Rshabha, the ‘Bull’
Meaning -
The posteriors are of the Adityas, solar children of nature, the loins are of Brhaspati, lord of Nature, the tail is of the divine blowing wind with which Rshabha gives the life breath to the herbs and trees.