Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 58
    ऋषिः - गृत्समद ऋषिः देवता - ब्रह्मणस्पतिर्देवता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः
    1

    ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व।विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑।य इ॒मा विश्वा॑। वि॒श्वक॑र्म्मा। यो नः॑ पि॒ता।अन्न॑प॒तेऽन्न॑स्य नो देहि॥५८॥

    स्वर सहित पद पाठ

    ब्रह्म॑णः। प॒ते॒। त्वम्। अ॒स्य। य॒न्ता। सू॒क्तस्येति॑ सुऽउ॒क्तस्य॑। बो॒धि॒। तन॑यम्। च॒। जि॒न्व ॥ विश्व॑म्। तत्। भ॒द्रम्। यत्। अव॑न्ति। दे॒वाः। बृ॒हत्। व॒दे॒म॒। वि॒दथे॑। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑ ॥५८ ॥


    स्वर रहित मन्त्र

    ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयञ्च जिन्व । विश्वन्तद्भद्रँयदवन्ति देवा बृहद्वदेम विदथे सुवीराः । यऽइमा विश्वा विश्वकर्मा यो नः पिताऽअन्नपते न्नस्य नो देहि॥ गलित मन्त्रः यऽइमा विश्वा भुवनानि जुह्वदृषिर्हाता न्यसीदत्पिता नः । सऽआशिषा द्रविणमिच्छमानः प्रथमच्छदवराँऽआविवेश॥ विश्वकर्मा विमनाऽआद्विहाया धाता विधाता परमोत सन्दृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऽऋषीन्पर एकमाहुः ॥ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानान्नामधाऽएक एव तँ सम्प्रश्नम्भुवना यन्त्यन्या ॥ अन्नपतेन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रप्र दातारन्तारिषऽऊर्जन्नो धेहि द्विपदे चतुष्पदे ॥


    स्वर रहित पद पाठ

    ब्रह्मणः। पते। त्वम्। अस्य। यन्ता। सूक्तस्येति सुऽउक्तस्य। बोधि। तनयम्। च। जिन्व॥ विश्वम्। तत्। भद्रम्। यत्। अवन्ति। देवाः। बृहत्। वदेम। विदथे। सुवीरा इति सुऽवीराः॥५८॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 58
    Acknowledgment

    भावार्थ - हे जगदीश्वरा ! आम्हाला विद्या व सत्य व्यवहाराचे नियम कळू दे. आमच्या संतानांना विद्यायुक्त कर. सर्व जगाचे यथायोग्य रक्षण करून न्याययुक्त धर्म, उत्तम शिक्षण दे व परस्पर प्रेम उत्पन्न कर.

    इस भाष्य को एडिट करें
    Top