Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 20
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - पथ्यापङ्क्तिः सूक्तम् - मणि बन्धन सूक्त

    अथ॑र्वाणो अबध्नताथर्व॒णा अ॑बध्नत। तैर्मे॒दिनो॒ अङ्गि॑रसो॒ दस्यू॑नां बिभिदुः॒ पुर॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    अथ॑र्वाण: । अ॒ब॒ध्न॒त॒ । आ॒थ॒र्व॒णा: । अ॒ब॒ध्न॒त॒ । तै: । मे॒दिन॑: । अङ्गि॑रस: । दस्यू॑नाम् । बि॒भि॒दु॒: । पुर॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.२०॥


    स्वर रहित मन्त्र

    अथर्वाणो अबध्नताथर्वणा अबध्नत। तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    अथर्वाण: । अबध्नत । आथर्वणा: । अबध्नत । तै: । मेदिन: । अङ्गिरस: । दस्यूनाम् । बिभिदु: । पुर: । तेन । त्वम् । द्विषत: । जहि ॥६.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 20

    टिप्पणीः - २०−(अथर्वाणः) अ० ४।१।७। अ+थर्व चरणे-वनिप्। निश्चलस्वभावा मुनयः (अबध्नत) आथर्वाणः अ० ६।१।१। अथर्वन्-अण्, ज्ञाने। अथर्वाणं निश्चलस्वभावं परमात्मानं ये जानन्ति ते महर्षयः (तैः) आथर्वणैः सह (मेदिनः) ञिमिदा स्नेहने, यद्वा, मिदृ मेदृ मेधाहिंसनयोः−णिनि। स्नेहिनः। मेधाविनः (अङ्गिरसः) अ० २।१२।४। ज्ञानिनो महर्षयः (दस्यूनाम्) चौराणाम् (बिभिदुः) चिच्छिदुः (पुरः) नगरीः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top