Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 9
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा शक्वरी सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तं सूर्यः॒ प्रत्य॑मुञ्चत॒ तेने॒मा अ॑जय॒द्दिशः॑। सो अ॑स्मै॒ भूति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । सूर्य॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । तेन॑ । इ॒मा: । अ॒ज॒य॒त् । दिश॑: । स: । अ॒स्मै॒ । भूति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.९॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे। तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः। सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । सूर्य: । प्रति । अमुञ्चत । तेन । इमा: । अजयत् । दिश: । स: । अस्मै । भूतिम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 9

    टिप्पणीः - ९−(सूर्यः) सूर्यवत्सविता राज्यप्रेरको वीरः (इमाः) दृश्यमानाः (अजयत्) वशीकृतवान् (दिशः) पूर्वादयः (भूतिम्) विभूतिम्। सम्पत्तिम्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top