अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 5
तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः। तु॑विग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमिषे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥
स्वर सहित पद पाठतम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गी: ॥ तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भ॒:ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥३६.५॥
स्वर रहित मन्त्र
तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः। तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥
स्वर रहित पद पाठतम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गी: ॥ तुविऽग्राभम् । तुविऽकूर्मिम् । रभ:ऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥३६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(तम्) पुरुषम् (पृच्छन्ती) जिज्ञासमाना (वज्रहस्तम्) आयुधपाणिम् (रथेष्ठाम्) रथारूढम् (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (वेपी) वेपृ कम्पने पचाद्यच्। गौरादित्वाद् ङीप्। कम्पनशीला। चेष्टायमाना (वक्वरी) वचेर्वनिप्। वनो र च। पा०४।१।७। ङीब्रेफौ। यद्वा, कॄगॄशॄदॄभ्यो वः। उ०१।१। वचेर्वप्रत्ययः, रो मत्वर्थे, ङीप्। न्यङ्क्वादीनां च। पा०७।३।३। इति बाहुलकात् कुत्त्वम्। वचनशक्तिमती (यस्य) पुरुषस्य (नु) निश्चयेन (गीः) वाक् (तुविग्राभम्) ग्रह उपादाने-अण् हस्य भः। बहूनां ग्रहीतारं सहायकम् (तुविकूर्मिम्) अर्त्तेरुच्च। उ०४।४४। डुकृञ् करणे-मिप्रत्ययः ऊच्च। बहुकर्माणम् (रभोदाम्) रभसो वेगयुक्तबलस्य दातारम् (गातुम्) कमिमनिजनिगाभायाहिभ्यश्च। उ०१।७३। वेदानां गायनं गायकम् (इषे) अन्नाद्याय दयानन्दभाष्ये-ऋक्०६।२२।। (नक्षते) प्राप्नोति। नक्षतिर्गतिकर्मा-निघ०२।१४ (तुम्रम्) तुमिराहननार्थः-सायणभाष्ये-ऋक्०३।०।१। सुसूधाञ्गृधिभ्यः क्रन्। उ०२।२४। इति क्रन् प्रत्ययः। विघ्नानां नाशकम् (अच्छ) सुष्ठु ॥
इस भाष्य को एडिट करें