Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 4/ मन्त्र 3
स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒ तव॑। सोमः॒ शम॑स्तु ते हृ॒दे ॥
स्वर सहित पद पाठस्वा॒दु: । ते॒ । अ॒स्तु॒ । स॒म्ऽसुदे॑ । मधु॑ऽमान् । त॒न्वे॑ । तव॑ । सोम॑: । शम् । अ॒स्तु॒ । ते॒ । हृदे ॥४.३॥
स्वर रहित मन्त्र
स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव। सोमः शमस्तु ते हृदे ॥
स्वर रहित पद पाठस्वादु: । ते । अस्तु । सम्ऽसुदे । मधुऽमान् । तन्वे । तव । सोम: । शम् । अस्तु । ते । हृदे ॥४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 4; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(स्वादुः) रोचकः (ते) तव (अस्तु) (संसुदे) षूद आश्रुतिहत्योः-क्विप्, छान्दसो ह्रस्वः, आश्रुतिरङ्गीकारः। सम्यक् स्वीकरणाय (मधुमान्) माधुर्योपेतः (तन्वे) शरीराय (तव) (सोमः) सदौषधिरसः (तन्वे) शरीराय (शम्) सुखकरः (अस्तु) (ते) तव (हृदे) हृदयाय ॥
इस भाष्य को एडिट करें