Loading...
अथर्ववेद > काण्ड 4 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 3
    सूक्त - चातनः देवता - सत्यौजा अग्निः छन्दः - अनुष्टुप् सूक्तम् - सत्यौजा अग्नि सूक्त

    य आ॑ग॒रे मृ॒गय॑न्ते प्रतिक्रो॒शेऽमा॑वा॒स्ये॑। क्र॒व्यादो॑ अ॒न्यान्दिप्स॑तः॒ सर्वां॒स्तान्त्सह॑सा सहे ॥

    स्वर सहित पद पाठ

    ये । आ॒ऽग॒रे । मृ॒गय॑न्ते । प्र॒ति॒ऽक्रो॒शे । अ॒मा॒ऽवा॒स्ये᳡ ।क्र॒व्य॒ऽअद॑: । अ॒न्यान् । दिप्स॑त: । सर्वा॑न् । तान् । सह॑सा । स॒हे॒ ॥३६.३॥


    स्वर रहित मन्त्र

    य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये। क्रव्यादो अन्यान्दिप्सतः सर्वांस्तान्त्सहसा सहे ॥

    स्वर रहित पद पाठ

    ये । आऽगरे । मृगयन्ते । प्रतिऽक्रोशे । अमाऽवास्ये ।क्रव्यऽअद: । अन्यान् । दिप्सत: । सर्वान् । तान् । सहसा । सहे ॥३६.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 3

    टिप्पणीः - ३−(ये) शत्रवः (आगरे) ॠदोरप्। पा० ३।३।७७। इति गॄ निगरणे-अप्। आगारे। गृहे (मृगयन्ते) मृग अन्वेषणे। अन्विच्छन्ति (प्रतिक्रोशे) प्रतिध्वनियुक्ते (अमावास्ये) अमा सह वसतश्चन्द्रार्कौ यस्याम्, अमा+वस निवासे-ण्यत्, टाप्। इति अमावास्या कृष्णपक्षान्ततिथिः। अ च। पा० ४।३।३१। इति अमावास्या-अ प्रत्ययः, जात इत्यर्थे। अमावास्यायां जाते कृष्णकाले (क्रव्यादः) अ० २।२५।५। मांसभक्षकान् सिंहादीन् (अन्यान्) इतरान् पुरुषान् (दिप्सतः) हिंसितुमिच्छून्। (सर्वान्) (तान्) (सहसा) बलेन (सहे) अभिभवामि ॥

    इस भाष्य को एडिट करें
    Top