अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 6
सूक्त - चातनः
देवता - सत्यौजा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यौजा अग्नि सूक्त
तप॑नो अस्मि पिशा॒चानां॑ व्या॒घ्रो गोम॑तामिव। श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम् ॥
स्वर सहित पद पाठतप॑न: । अ॒स्मि॒ । पि॒शा॒चाना॑म् । व्या॒घ्र: । गोम॑ताम्ऽइव । श्वान॑: । सिं॒हम्ऽइ॑व । दृ॒ष्ट्वा । ते । न । वि॒न्द॒न्ते॒ । नि॒ऽअञ्च॑नम्॥३६.६॥
स्वर रहित मन्त्र
तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव। श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥
स्वर रहित पद पाठतपन: । अस्मि । पिशाचानाम् । व्याघ्र: । गोमताम्ऽइव । श्वान: । सिंहम्ऽइव । दृष्ट्वा । ते । न । विन्दन्ते । निऽअञ्चनम्॥३६.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(तपनः) तप-ल्यु। संतापकः (अस्मि) (पिशाचानाम्) मांसभक्षकाणाम् (व्याघ्रः) हिंसकजन्तुविशेषः (गोमताम्) गोस्वामिनाम् (इव) यथा (श्वानः) अ० ४।५।२। श्वाऽऽशुयायी शवतेर्वा स्याद् गतिकर्मणः श्वसितेर्वा-निरु० ३।१८। कुक्कुराः (सिंहम्) अ० ४।८।७। (इव) (दृष्ट्वा) अवलोक्य (ते) पिशाचाः (न) निषेधे (विन्दन्ते) लभन्ते (न्यञ्चनम्) निम्नगमनं रक्षास्थानम् ॥
इस भाष्य को एडिट करें