Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 50/ मन्त्र 2
सूक्त - अथर्वा
देवता - अश्विनौ
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अभययाचना सूक्त
तर्द॒ है पत॑ङ्ग॒ है जभ्य॒ हा उप॑क्वस। ब्र॒ह्मेवासं॑स्थितं ह॒विरन॑दन्त इ॒मान्यवा॒नहिं॑सन्तो अ॒पोदि॑त ॥
स्वर सहित पद पाठतर्द॑ । है । पत॑ङ्ग । है । जभ्य॑ । है । उप॑ऽक्वस । ब्र॒ह्माऽइ॑व । अस॑म्ऽस्थितम् । ह॒वि: । अन॑दन्त: । इ॒मान् । यवा॑न् । अहि॑सन्त: । अ॒प॒ऽउदि॑त ॥५०.२॥
स्वर रहित मन्त्र
तर्द है पतङ्ग है जभ्य हा उपक्वस। ब्रह्मेवासंस्थितं हविरनदन्त इमान्यवानहिंसन्तो अपोदित ॥
स्वर रहित पद पाठतर्द । है । पतङ्ग । है । जभ्य । है । उपऽक्वस । ब्रह्माऽइव । असम्ऽस्थितम् । हवि: । अनदन्त: । इमान् । यवान् । अहिसन्त: । अपऽउदित ॥५०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तर्द) हिंसककाकादे (है) हे (पतङ्ग) पतनशील शलभादे (है) (जभ्य) हिंस्य (हा) हे (उपक्वस) उप+कु+अस गतौ−अच्। उप हीनतया कौ भूमौ असति गच्छतीति यः सः, तत्सम्बुद्धौ। हे कीटादे (ब्रह्मा) ऋत्विक्। महाविद्वान् (इव) यथा (असंस्थितम्) असंस्कृतम्। अपथ्यम् (हविः) अन्नम् (अनदन्तः) अभक्षयन्तः (इमान्) समीपस्थान् (यवान्) यवाद्यन्नानि (अहिंसन्तः) अविनाशयन्तः (अपोदित) अप+उत्+इण् गतौ लोट्। उड्डीय गच्छत ॥
इस भाष्य को एडिट करें