Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 3
सूक्त - अथर्वाङ्गिरा
देवता - शेपोऽर्कः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - वाजीकरण सूक्त
याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्व॑स्य वा॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥
स्वर सहित पद पाठया॒व॒त्ऽअ॒ङ्गीन॑म् । पार॑स्वतम् । हास्ति॑नम् । गार्द॑भम् । च॒ । यत् । याव॑त् । अश्व॑स्य । वा॒जिन॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.३॥
स्वर रहित मन्त्र
यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्। यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥
स्वर रहित पद पाठयावत्ऽअङ्गीनम् । पारस्वतम् । हास्तिनम् । गार्दभम् । च । यत् । यावत् । अश्वस्य । वाजिन: । तावत् । ते । वर्धताम् । पस: ॥७२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यावदङ्गीनम्) तेन निर्वृत्तम्। ४।२।६८। इति−ख। यावन्ति अङ्गानि तावद्भिर्निर्वृत्तं सिद्धम्, तानि यथा। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः। इत्यमरः, १८।१७, १८। (पारस्वतम्) परस्वत्−अण्। परस्वद्भिः पालनसमर्थैः पुरुषैर्निर्वृत्तम् (हास्तिनम्) हस्तिन्−अण्। इनण्यनपत्ये। पा० ६।४।१६४। इति प्रकृतिभावः हस्तिभिर्निर्वृत्तं सिद्धम् (गार्दभम्) गर्दभ−अण्। गर्दभैर्वहनशीलैः पशुभिर्निर्वृत्तम् (च) (यत्) यत्प्रमाणम् (यावत्) (अश्वस्य) अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तिसंहत्योः−क्वन्। अश्नुते व्याप्नोति कार्याणि सोऽश्वः, बलवान् पुरुषः, तस्य (वाजिनः) वाजः, अन्नम्−निघ० २।७। अन्नवतः। अन्यत्पूर्ववत् ॥
इस भाष्य को एडिट करें