Loading...
अथर्ववेद > काण्ड 6 > सूक्त 92

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 2
    सूक्त - अथर्वा देवता - वाजी छन्दः - त्रिष्टुप् सूक्तम् - वाजी सूक्त

    ज॒वस्ते॑ अर्व॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने वात॑ उ॒त योऽच॑र॒त्परी॑त्तः। तेन॒ त्वं वा॑जि॒न्बल॑वा॒न्बले॑ना॒जिं ज॑य॒ सम॑ने पारयि॒ष्णुः ॥

    स्वर सहित पद पाठ

    ज॒व: । ते॒ । अ॒र्व॒न् । निऽहि॑त: । गुहा॑ । य: । श्ये॒ने । वाते॑ । उ॒त । य: । अच॑रत् । परी॑त्त: । तेन॑ । त्वम् । वा॒जि॒न् । बल॑ऽवान् । बले॑न । आ॒जिम् । ज॒य॒ । सम॑ने । पा॒रि॒यि॒ष्णु: ॥९२.२॥


    स्वर रहित मन्त्र

    जवस्ते अर्वन्निहितो गुहा यः श्येने वात उत योऽचरत्परीत्तः। तेन त्वं वाजिन्बलवान्बलेनाजिं जय समने पारयिष्णुः ॥

    स्वर रहित पद पाठ

    जव: । ते । अर्वन् । निऽहित: । गुहा । य: । श्येने । वाते । उत । य: । अचरत् । परीत्त: । तेन । त्वम् । वाजिन् । बलऽवान् । बलेन । आजिम् । जय । समने । पारियिष्णु: ॥९२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 2

    टिप्पणीः - २−(जवः) वेगः (ते) तव (अर्वन्) अ० ४।९।२। ऋ गतिप्रापणयोः−वनिप्। हे शीघ्रगामिन्। विज्ञानिन् (निहितः) धाञ्−क्त। नितरां धृतः (गुहा) अ० १।८।४। गुहायाम्। हृदये (यः) जवः (श्येने) अ० ३।३। पक्षिविशेषे वाजे (वाते) वायौ (उत) अपि च (अचरत्) अवर्तत (परीत्तः) परि पूर्वाद् ददातेः−क्त। अच उपसर्गात्तः। पा० ७।४।४७। इति आकारस्य तकारः। झरो झरि सवर्णे। पा० ८।४।६५। इति तलोपः। दस्ति। पा० ६।३।१२४। इति इगन्तोपसर्गस्य दीर्घः। सर्वतो दत्तः (तेन) जवेन (त्वम्) (वाजिन्) हे वेगवन् (बलवान्) अतिबलयुक्तः (बलेन) पौरुषेण (आजिम्) अ० २।१४।६। युद्धम् (जय) अभिभावय। उत्कर्षेण प्राप्नुहि (समने) अ० ६।६।२। संग्रामे (पारयिष्णुः) अ० ५।२८।१४। पारप्रापकः ॥

    इस भाष्य को एडिट करें
    Top