Loading...
अथर्ववेद > काण्ड 6 > सूक्त 92

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 3
    सूक्त - अथर्वा देवता - वाजी छन्दः - त्रिष्टुप् सूक्तम् - वाजी सूक्त

    त॒नूष्टे॑ वाजिन्त॒न्वं नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥

    स्वर सहित पद पाठ

    त॒नू॒: । ते॒ । वा॒जि॒न् । त॒न्व᳡म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धाव॑तु। शर्म॑ । तुभ्य॑म् । अह्रु॑त: । म॒ह: । ध॒रुणा॑य । दे॒व: । दि॒विऽइ॑व । ज्योति॑: । स्वम् । आ । मि॒मी॒या॒त्॥९२.३॥


    स्वर रहित मन्त्र

    तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम्। अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात् ॥

    स्वर रहित पद पाठ

    तनू: । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धावतु। शर्म । तुभ्यम् । अह्रुत: । मह: । धरुणाय । देव: । दिविऽइव । ज्योति: । स्वम् । आ । मिमीयात्॥९२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 3

    टिप्पणीः - ३−(तनूः) शरीरयष्टिः (ते) तव (वाजिन्) हे बलवन् राजन् (तन्वम्) अस्माकं शरीरम् (नयन्ती) प्रेरयन्ती (वामम्) अ० ४।२२।४। वननीयं धनम् (अस्मभ्यम्) प्रजागणेभ्यः (धावतु) धाव जवे, अन्तर्गतण्यर्थः। शीघ्रं प्रापयतु (शर्म) सुखम् (तुभ्यम्) राज्ञे (अह्रुतम्) ह्रु ह्वरेश्छन्दसि पा० ७।२।३१। इति ह्वृ कौटिल्ये−क्त ह्रु आदेशः। अकुटिलः। छलरहितः (महः) अह−असुन्। महत् (धरुणाय) अ० ३।१२।३। अस्माकं धारणाय (देवः) विजिगीषुर्भवान् राजा (दिवि) सूर्ये वर्तमानम् (इव) यथा (ज्योतिः) तेजः (स्वम्) स्वकीयम् (मिमीयात्) माङ् माने शब्दे च, विधिलिङि छान्दसं परस्मैपदम्। मिमीत। निर्माणयेत् ॥

    इस भाष्य को एडिट करें
    Top