अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
अ॑मुत्र॒भूया॒दधि॒ यद्य॒मस्य॒ बृह॑स्पतेर॒भिश॑स्ते॒रमु॑ञ्चः। प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॒स्मद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥
स्वर सहित पद पाठअ॒मु॒त्र॒ऽभूया॑त् । अधि॑ । यत् । य॒मस्य॑ । बृह॑स्पते: । अ॒भिऽश॑स्ते: । अमु॑ञ्च: । प्रति॑ । औ॒ह॒ता॒म् । अ॒श्विना॑ । मृ॒त्युम् । अ॒स्मत् ।दे॒वाना॑म् । अ॒ग्ने॒ । भि॒षजा॑ । शची॑भि: ॥५५.१॥
स्वर रहित मन्त्र
अमुत्रभूयादधि यद्यमस्य बृहस्पतेरभिशस्तेरमुञ्चः। प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥
स्वर रहित पद पाठअमुत्रऽभूयात् । अधि । यत् । यमस्य । बृहस्पते: । अभिऽशस्ते: । अमुञ्च: । प्रति । औहताम् । अश्विना । मृत्युम् । अस्मत् ।देवानाम् । अग्ने । भिषजा । शचीभि: ॥५५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अमुत्रभूयात्) भुवो भावे। पा० ३।१।१०७। अमुत्र+भू-क्यप्। परजन्मनि भाविनो भयात्। परलोकगमनान्मरणाद् वा (अधि) अधिकृत्य (यत्) यस्मात्कारणात् (यमस्य) नियन्तू राज्ञः (बृहस्पतेः) महतां पालकस्य (अभिशस्तेः) अपराधात् (अमुञ्चः) लङि रूपम्। मोचितवानसि (प्रति) प्रतिकूलम् (औहताम्) उहिर् अर्दने-लङ्। नाशितवन्तौ (अश्विना) मातापितरौ। अध्यापकोपदेशकौ (मृत्युम्) मरणकारणम् (अस्मत्) अस्मत्तः (देवानाम्) विदुषां मध्ये (अग्ने) हे सर्वव्यापक परमेश्वर (भिषजा) अ० २।९।३। भिषजौ वैद्यरूपौ (शचीभिः) कर्मभिः-निघ० २।१ ॥
इस भाष्य को एडिट करें