Loading...
अथर्ववेद > काण्ड 7 > सूक्त 53

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - आयुः, बृहस्पतिः, अश्विनौ छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - दीर्घायु सूक्त

    आयु॒र्यत्ते॒ अति॑हितं परा॒चैर॑पा॒नः प्रा॒णः पुन॒रा तावि॑ताम्। अ॒ग्निष्टदाहा॒र्निरृ॑तेरु॒पस्था॒त्तदा॒त्मनि॒ पुन॒रा वे॑शयामि ते ॥

    स्वर सहित पद पाठ

    आयु॑: । यत् । ते॒ । अत‍ि॑ऽहितम् । प॒रा॒चै: । अ॒पा॒न: । प्रा॒ण: । पुन॑: । आ । तौ । इ॒ता॒म् । अ॒ग्नि: । तत् । आ । अ॒हा॒: । नि:ऽऋ॑ते : । उ॒पऽस्था॑त् । तत् । आ॒त्मनि॑ । पुन॑: । आ । वे॒श॒या॒मि॒ । ते॒ ॥५५.३॥


    स्वर रहित मन्त्र

    आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम्। अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥

    स्वर रहित पद पाठ

    आयु: । यत् । ते । अत‍िऽहितम् । पराचै: । अपान: । प्राण: । पुन: । आ । तौ । इताम् । अग्नि: । तत् । आ । अहा: । नि:ऽऋते : । उपऽस्थात् । तत् । आत्मनि । पुन: । आ । वेशयामि । ते ॥५५.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 3

    टिप्पणीः - ३−(आयुः) जीवनबलम् (यत्) (ते) तव (अतिहितम्) धा-क्त। हानिं गतम् (पराचैः) पराङ्मुखम् (अपानः)-म० २ (प्राणः) (पुनः) (तौ) (आ इताम्) इण् गतौ-लोट्। आगच्छताम् (अग्निः) वैद्यः शरीराग्निर्वा (तत्) आयुः (आ अहाः) अ० ६।१०३।२। हरतेर्लुङ्। अहार्षीत्। आनीतवान् (निर्ऋतेः) अ० २।१०।१। अलक्ष्म्याः। कृच्छ्रापत्तेः (उपस्थात्) समीपात् (तत्) आयुः (आत्मनि) शरीरे (पुनः) (आवेशयामि) प्रवेशयामि (ते) तव ॥

    इस भाष्य को एडिट करें
    Top