Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 3
    सूक्त - अथर्वा देवता - वरुणः छन्दः - पङ्क्तिः सूक्तम् - संपत्कर्म सूक्त

    स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः। न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये ॥

    स्वर सहित पद पाठ

    स॒त्यम् । अ॒हम् ।ग॒भी॒र: । काव्ये॑न । स॒त्यम् । जा॒तेन॑ । अ॒स्मि॒ । जा॒तऽवे॑दा: । न । मे॒ । दा॒स: । न । आर्य॑: । म॒हि॒ऽत्वा । व्र॒तम् । मी॒मा॒य॒ । यत् । अ॒हम् । ध॒रि॒ष्ये ॥११.३॥


    स्वर रहित मन्त्र

    सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः। न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥

    स्वर रहित पद पाठ

    सत्यम् । अहम् ।गभीर: । काव्येन । सत्यम् । जातेन । अस्मि । जातऽवेदा: । न । मे । दास: । न । आर्य: । महिऽत्वा । व्रतम् । मीमाय । यत् । अहम् । धरिष्ये ॥११.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 3

    भावार्थ -
    विद्वान् धनी के प्रति उत्तर देता है—(सत्यम्) वास्तव में (काव्येन) वेद के ज्ञान से (अहम् गभीरः) मैं गंभीर, गहरा विद्वान् हूं। और (सत्यं जातेन) वास्तव में विधान से ही मैं (जात-वेदाः अस्मि) समस्त पदार्थों का और वेदों का ज्ञाता होगया हूं (मे व्रतं) मेरे सत्यमय व्रत = दृढ संकल्प को (यद् अहं) जिसको मैं (महित्वा धरिष्ये) अपने आत्मसामर्थ्य से धारण कर लेता हूं (आर्यः न मीमाय) उसे कोई श्रेष्ठ पुरुष भी विनाश नहीं कर सकता और (न दासः) न खल पुरुष ही उसका विनाश कर सकता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरुणो देवता। १ भुरिक् अनुष्टुप्। ३ पंक्तिः। ६ पञ्चपदातिशक्वरी। ११ त्र्यवसाना षट्पदाऽष्टिः। २, ४, ५, ७-१० अनुष्टुभः। एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top