अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 21
हेडं॑ पशू॒नां न्येति ब्राह्म॒णेभ्योऽद॑दद्व॒शाम्। दे॒वानां॒ निहि॑तं भा॒गं मर्त्य॒श्चेन्नि॑प्रिया॒यते॑ ॥
स्वर सहित पद पाठहेड॑म् । प॒शू॒नाम् । नि । ए॒ति॒ । ब्रा॒ह्म॒णेभ्य॑: । अद॑दत् । व॒शाम् । दे॒वाना॑म् । निऽहि॑तम् । भा॒गम् । मर्त्य॑: । च॒ । इत् । नि॒ऽप्रि॒य॒यते॑ ॥४.२१॥
स्वर रहित मन्त्र
हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम्। देवानां निहितं भागं मर्त्यश्चेन्निप्रियायते ॥
स्वर रहित पद पाठहेडम् । पशूनाम् । नि । एति । ब्राह्मणेभ्य: । अददत् । वशाम् । देवानाम् । निऽहितम् । भागम् । मर्त्य: । च । इत् । निऽप्रिययते ॥४.२१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 21
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(देवानां निहितं भागं) देवों के धरोहर रखे भाग को (चेत् मर्त्यः) यदि मनुष्य (नि प्रियायते) अपने काम में लाता है या दबा लेता तो वह (ब्राह्मणेभ्यः) ब्राह्मणों को (वशाम्) उस वशा का (अददत्) दान न करके ही (पशूनाम्) पशुओं के भी (हेडं निएति) क्रोध को प्राप्त करता है।
टिप्पणी -
(च०) ‘ऋतासे नु प्रियायते’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें