Loading...

251 परिणाम मिले!

  • ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू। स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम्॥ - Rigveda/3/35/4
  • ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम्। असपत्नः सपत्नहा सपत्नान्मेऽधराँ अकः ॥ - Atharvaveda/10/6/0/30
  • ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥ - Atharvaveda/11/3/0/15
  • ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता। ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥ - Atharvaveda/10/2/0/25
  • ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम्। इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥ - Atharvaveda/9/3/0/19
  • ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे। अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥ - Atharvaveda/11/1/0/18
  • ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः । अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥ - Rigveda/10/162/1
  • ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः। अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥ - Atharvaveda/20/96/0/11
  • ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ। ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥ - Atharvaveda/13/1/0/49
  • ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥ - Atharvaveda/15/14/0/24
  • ब्रह्मणे ब्राह्मणङ्क्षत्राय राजन्यम्मरुद्भ्यो वैश्यन्तपसे शूद्रन्तमसे तस्करन्नारकाय वीरहणम्पाप्मने क्लीबमाक्रयायाऽअयोगूङ्कामाय पुँश्चलूमतिक्रुष्टाय मागधम् ॥ - Yajurveda/30/5
  • ब्रह्मणे स्वाहा ॥ - Atharvaveda/19/22/0/20
  • ब्रह्मणे स्वाहा ॥ - Atharvaveda/19/23/0/29
  • ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम्। अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥२॥ - Rigveda/7/29/2
  • ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशीः३ प्रत्यञ्चा३मिति ॥ - Atharvaveda/11/3/0/26
  • ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे। व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी ॥ - Rigveda/1/105/15
  • ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः। विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥१॥ - Rigveda/7/28/1
  • ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता । इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥ - Rigveda/8/90/3
  • ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणाꣳ स्वधितिर्वनानाꣳ सोमः पवित्रमत्येति रेभन् ॥९४४॥ - Samveda/944
  • ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोम: पवित्रमत्येति रेभन् ॥ - Rigveda/9/96/6
  • ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥४३९॥ - Samveda/439
  • ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम्। गां न दोहसे हुवे ॥७॥ - Rigveda/6/45/7
  • ब्रह्माणस्त्वा युजा वयꣳ सोमपामिन्द्र सोमिनः । सुतावन्तो हवामहे ॥६६८॥ - Samveda/668
  • ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिन: । सुतावन्तो हवामहे ॥ - Rigveda/8/17/3
  • ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः। सुतावन्तो हवामहे ॥ - Atharvaveda/20/3/0/3
  • ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः। सुतावन्तो हवामहे ॥ - Atharvaveda/20/38/0/3
  • ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः। सुतावन्तो हवामहे ॥ - Atharvaveda/20/47/0/9
  • ब्रह्माणि मे मतयः शँ सुतासः शुष्मऽइयर्ति प्रभृतो मेऽअद्रिः । आ शासते प्रतिहर्यन्त्युक्थेमा हरी वहतस्ता नोऽअच्छ ॥ - Yajurveda/33/78
  • ब्रह्माणि मे मतय: शं सुतास: शुष्म इयर्ति प्रभृतो मे अद्रि:। आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥ - Rigveda/1/165/4
  • ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः। सुते सोमे सुतपाः शंतमानि रान्द्र्या क्रियास्म वक्षणानि यज्ञैः ॥६॥ - Rigveda/6/23/6
  • ब्रह्मापरंयुज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः।अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥ - Atharvaveda/14/1/0/64
  • ब्रह्माभ्यावर्ते। तन्मे द्रविणं यच्छन्तु तन्मे ब्राह्मणवर्चसम् ॥ - Atharvaveda/10/5/0/40
  • ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य। छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥ - Atharvaveda/4/34/0/1
  • ब्राह्मण एव पतिर्न राजन्यो न वैश्यः। तत्सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः ॥ - Atharvaveda/5/17/0/9
  • ब्राह्मणमद्य विदेयम्पितृमन्तम्पैतृमत्यमृषिमार्षेयँ सुधातुदक्षिणम् । अस्मद्राता देवत्रा गच्छत प्रदातारमा विशत ॥ - Yajurveda/7/46
  • ब्राह्मणाँ अभ्यावर्ते। ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥ - Atharvaveda/10/5/0/41
  • ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु। तवेद्धि सख्यमस्तृतम्॥ - Rigveda/1/15/5
  • ब्राह्मणादिन्द्र राधसः पिबा सोममृतूꣳरनु । तवेदꣳ सख्यमस्तृतम् ॥२२९॥ - Samveda/229
  • ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा। पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत ॥१०॥ - Rigveda/6/75/10
  • ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवीऽअनेहसा । पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्ना अघशँस ईशत ॥ - Yajurveda/29/47
  • ब्राह्मणास: सोमिनो वाचमक्रत ब्रह्म कृण्वन्त: परिवत्सरीणम् । अध्वर्यवो घर्मिण: सिष्विदाना आविर्भवन्ति गुह्या न के चित् ॥ - Rigveda/7/103/8
  • ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः । संवत्सरस्य तदह: परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ॥ - Rigveda/7/103/7
  • ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन। सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥ - Atharvaveda/4/19/0/2
  • ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः। पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥ - Atharvaveda/9/4/0/19
  • ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते। ऋतं ह्य।स्यामार्पितमपि ब्रह्माथो तपः ॥ - Atharvaveda/10/10/0/33
  • ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः। स सोमं प्रथमः पपौ स चकारारसं विषम् ॥ - Atharvaveda/4/6/0/1
  • ब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रोऽअजायत ॥ - Yajurveda/31/11
  • ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्य: कृतः । ऊरू तदस्य यद्वैश्य: पद्भ्यां शूद्रो अजायत ॥ - Rigveda/10/90/12
  • ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्। मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ - Atharvaveda/19/6/0/6
  • ब्रूमो देवं सवितारं धातारमुत पूषणम्। त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ - Atharvaveda/11/6/0/3
Top