Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 102
    ऋषिः - हिरण्यगर्भ ऋषिः देवता - को देवता छन्दः - निचृदार्षी त्रिष्टुप् स्वरः - धैवतः
    3

    मा मा॑ हिꣳसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ꣳ स॒त्यध॑र्मा॒ व्यान॑ट्। यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥१०२॥

    स्वर सहित पद पाठ

    मा। मा॒। हि॒ꣳसी॒त्। ज॒नि॒ता। यः। पृ॒थि॒व्याः। यः। वा॒। दिव॑म्। स॒त्यध॒र्मेति॑ स॒त्यऽध॑र्मा। वि। आन॑ट्। यः। च॒। अ॒पः। च॒न्द्राः। प्र॒थ॒मः। ज॒जान॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥१०२ ॥


    स्वर रहित मन्त्र

    मा मा हिँसीज्जनिता यः पृथिव्या यो वा दिवँ सत्यधर्मा व्यानट् । यश्चापश्चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥


    स्वर रहित पद पाठ

    मा। मा। हिꣳसीत्। जनिता। यः। पृथिव्याः। यः। वा। दिवम्। सत्यधर्मेति सत्यऽधर्मा। वि। आनट्। यः। च। अपः। चन्द्राः। प्रथमः। जजान। कस्मै। देवाय। हविषा। विधेम॥१०२॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 102
    Acknowledgment

    अन्वयः - यः सत्यधर्मा जगदीश्वरः पृथिव्या जनिता, यो वा दिवमपश्च व्यानट्, चन्द्राश्च जजान, यस्मै कस्मै देवाय हविषा वयं विधेम, स जगदीश्वरो मा मा हिंसीत्॥१०२॥

    पदार्थः -
    (मा) निषेधे (मा) माम् (हिंसीत्) रौगैर्हिंस्यात् (जनिता) उत्पादकः (यः) जगदीश्वरः (पृथिव्याः) भूमेः (यः) (वा) (दिवम्) सूर्यादिकं जगत् (सत्यधर्मा) सत्यो धर्मो यस्य सः (वि) (आनट्) व्याप्तोऽस्ति (यः) (च) अग्निं सूर्यम् (अपः) जलानि वायून् (चन्द्राः) चन्द्रादिलोकान्, अत्र शसः स्थाने जस् (प्रथमः) जन्मादेः पृथगादिमः (जजान) जनयति (कस्मै) सुखस्वरूपाय सुखकारकाय। क इति पदनामसु पठितम्॥ (निघं॰५.४) ‘वाच्छन्दसि सर्वे विधयः’ इति सर्वनामकार्य्यम् (देवाय) दिव्यसुखप्रदाय विज्ञानस्वरूपाय (हविषा) उपादेयेन भक्तियोगेन (विधेम) परिचरेम। [अयं मन्त्रः शत॰७.३.१.२ व्याख्यातः]॥१०२॥

    भावार्थः - मनुष्यैः सत्यधर्मप्राप्तये ओषध्यादिविज्ञानाय च परमेश्वरः प्रार्थनीयः॥१०२॥

    इस भाष्य को एडिट करें
    Top