Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 91
    ऋषिः - वरुण ऋषिः देवता - वैद्या देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    3

    अ॒व॒पत॑न्तीरवदन् दि॒वऽओष॑धय॒स्परि॑। यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः॥९१॥

    स्वर सहित पद पाठ

    अ॒व॒पत॑न्ती॒रित्य॑व॒ऽपत॑न्तीः। अ॒व॒द॒न्। दि॒वः। ओष॑धयः। परि॑। यम्। जी॒वम्। अ॒श्नवा॑महै। नः। सः। रि॒ष्या॒ति॒। पूरु॑षः। पूरु॑ष॒ इति॒ पुरु॑षः ॥९१ ॥


    स्वर रहित मन्त्र

    अवपतन्तीरवदन्दिवऽओषधयस्परि । यञ्जीवमश्नवामहै न स रिष्याति पूरुषः ॥


    स्वर रहित पद पाठ

    अवपतन्तीरित्यवऽपतन्तीः। अवदन्। दिवः। ओषधयः। परि। यम्। जीवम्। अश्नवामहै। नः। सः। रिष्याति। पूरुषः। पूरुष इति पुरुषः॥९१॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 91
    Acknowledgment

    अन्वयः - वयं या दिवोऽवपतन्तीरोषधयः सन्ति, या विद्वांसः पर्यवदन्, याभ्यो यं जीवमश्नवामहै, याः संसेव्य स पूरुषो न रिष्यति, कदाचिद् रोगैर्हिंसितो न भवेत्॥९१॥

    पदार्थः -
    (अवपतन्तीः) अध आगच्छन्तीः (अवदन्) उपदिशन्तु (दिवः) प्रकाशात् (ओषधयः) सोमाद्याः (परि) सर्वतः (यम्) (जीवम्) प्राणधारकम् (अश्नवामहै) प्राप्नुयाम (न) निषेधे (सः) (रिष्याति) रोगैर्हिंसितो भवेत् (पूरुषः) पुमान्॥९१॥

    भावार्थः - विद्वांसोऽखिलेभ्यो मनुष्येभ्यो दिव्यौषधीनां विद्यां प्रदद्युः, यतोऽलं जीवनं सर्वे प्राप्नुयुः। एता ओषधीः केनापि कदाचिन्नैव विनाशनीयाः॥९१॥

    इस भाष्य को एडिट करें
    Top