Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 15
    ऋषिः - हैमवर्चिर्ऋषिः देवता - सोमो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    5

    सोम॑स्य रू॒पं क्री॒तस्य॑ परि॒स्रुत्परि॑षिच्यते। अ॒श्विभ्यां॑ दु॒ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्रꣳ सर॑स्वत्या॥१५॥

    स्वर सहित पद पाठ

    सोम॑स्य। रू॒पम्। क्री॒तस्य॑। प॒रि॒स्रुदिति॑ परि॒ऽस्रुत्। परि॑। सि॒च्य॒ते॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। दु॒ग्धम्। भे॒ष॒जम्। इन्द्रा॑य। ऐ॒न्द्रम्। सर॑स्वत्या ॥१५ ॥


    स्वर रहित मन्त्र

    सोमस्य रूपङ्क्रीतस्य परिस्रुत्परि षिच्यते । अश्विभ्यां दुद्ग्धं भेषजमिन्द्रायैन्द्रँ सरस्वत्या ॥


    स्वर रहित पद पाठ

    सोमस्य। रूपम्। क्रीतस्य। परिस्रुदिति परिऽस्रुत्। परि। सिच्यते। अश्विभ्यामित्यश्विऽभ्याम्। दुग्धम्। भेषजम्। इन्द्राय। ऐन्द्रम्। सरस्वत्या॥१५॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 15
    Acknowledgment

    अन्वयः - हे स्त्रियो! यथा सरस्वत्या विदुष्या क्रीतस्य सोमस्य परिस्रुद् रूपमश्विभ्यां दुग्धं भेषजमिन्द्रायैन्द्रं परिषिच्यते, तथा यूयमप्याचरत॥१५॥

    पदार्थः -
    (सोमस्य) सोमलताद्योषधिसमूहस्य (रूपम्) उत्तमस्वरूपम् (क्रीतस्य) गृहीतस्य (परिस्रुत्) यः परितः सर्वत स्रवति प्राप्नोति स रसः (परि) सर्वतः (सिच्यते) (अश्विभ्याम्) वैदिकविद्याव्यापिभ्यां विद्वद्भ्याम् (दुग्धम्) गवादिभ्यः पयः (भेषजम्) सर्वौषधम् (इन्द्राय) ऐश्वर्येच्छुकाय (ऐन्द्रम्) इन्द्रो विद्युद्देवता यस्य तत् विज्ञानम् (सरस्वत्या) प्रशस्तविद्याविज्ञानयुक्तया पत्न्या॥१५॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। सर्वाभिः कुमारीभिर्ब्रह्मचर्य्येण व्याकरणधर्म्मविद्यायुर्वेदादीनधीत्य स्वयंवरविवाहं कृत्वा प्रशस्तान्यौषधान्यौषधवदन्नव्यञ्जनानि च परिपच्य सुरसैः संयोज्य पत्यादीन् सम्भोज्य स्वयं च भुक्त्वा बलारोग्योन्नतिः सततं कार्या॥१५॥

    इस भाष्य को एडिट करें
    Top