Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 41
    ऋषिः - वैखानस ऋषिः देवता - अग्निर्देवता छन्दः - निचृदगायत्री स्वरः - षड्जः
    3

    यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा। ब्रह्म॒ तेन॑ पुनातु मा॥४१॥

    स्वर सहित पद पाठ

    यत्। ते॒। प॒वित्र॑म्। अ॒र्चिषि॑। अग्ने॑। वित॑त॒मिति॒ विऽतत॑म्। अ॒न्त॒रा। ब्रह्म॑। तेन॑। पु॒ना॒तु॒। मा॒ ॥४१ ॥


    स्वर रहित मन्त्र

    यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनातु मा ॥


    स्वर रहित पद पाठ

    यत्। ते। पवित्रम्। अर्चिषि। अग्ने। विततमिति विऽततम्। अन्तरा। ब्रह्म। तेन। पुनातु। मा॥४१॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 41
    Acknowledgment

    अन्वयः - हे अग्ने! ते तवार्चिष्यन्तरा यत् विततं पवित्रं ब्रह्मास्ति, तेन मा मां भवान् पुनातु॥४१॥

    पदार्थः -
    (यत्) (ते) तव (पवित्रम्) शुद्धम् (अर्चिषि) अर्चितुं योग्ये शुद्धे तेजसि (अग्ने) स्वप्रकाशस्वरूपेश्वर (विततम्) व्याप्तम् (अन्तरा) (ब्रह्म) बृहद्विद्यं वेदचतुष्टयम् (तेन) (पुनातु) (मा) माम्॥४१॥

    भावार्थः - हे मनुष्याः! यूयं यो देवानां देवः पवित्राणां पवित्रो व्याप्तेषु व्याप्तोऽन्तर्यामीश्वरस्तद्विद्या वेदश्चाऽस्ति, तदनुकूलाचरणेन सततं पवित्रा भवत॥४१॥

    इस भाष्य को एडिट करें
    Top