Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 51
    ऋषिः - शङ्ख ऋषिः देवता - पितरो देवताः छन्दः - भुरिक् पङ्क्तिः स्वरः - पञ्चमः
    4

    ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः। तेभि॑र्य॒मः स॑ꣳररा॒णो ह॒वीष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒म॑मत्तु॥५१॥

    स्वर सहित पद पाठ

    ये। नः॒। पूर्वे॑। पि॒तरः॑। सो॒म्यासः॑। अ॒नू॒हि॒र इत्य॑नुऽऊहि॒रे। सो॒म॒पी॒थमिति॑। सोमऽपी॒थम्। वसि॑ष्ठाः। तेभिः॑। य॒मः। स॒ꣳर॒रा॒ण इति॑ सम्ऽररा॒णः। ह॒वीषि॑। उ॒शन्। उ॒शद्भिरित्यु॒शत्ऽभिः॑। प्र॒ति॒का॒ममिति॑ प्रतिऽका॒मम्। अ॒त्तु॒ ॥५१ ॥


    स्वर रहित मन्त्र

    ये नः पूर्वे पितरः सोम्यासो नूहिरे सोमपीथँ वसिष्ठाः । तेभिर्यमः सँरराणो हवीँष्युशन्नुशद्भिः प्रतिकाममत्तु ॥


    स्वर रहित पद पाठ

    ये। नः। पूर्वे। पितरः। सोम्यासः। अनूहिर इत्यनुऽऊहिरे। सोमपीथमिति। सोमऽपीथम्। वसिष्ठाः। तेभिः। यमः। सꣳरराण इति सम्ऽरराणः। हवीषि। उशन्। उशद्भिरित्युशत्ऽभिः। प्रतिकाममिति प्रतिऽकामम्। अत्तु॥५१॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 51
    Acknowledgment

    अन्वयः - ये नः सोम्यासो वसिष्ठाः पूर्वे पितरः सोमपीथमनूहिरे, तेभिरुशद्भिः सह हवींष्युशन् संरराणो यमः प्रतिकाममत्तु॥५१॥

    पदार्थः -
    (ये) (नः) (पूर्वे) पूर्वज्ञाः (पितरः) ज्ञानिनो जनकाः (सोम्यासः) सोमगुणानर्हन्तः (अनूहिरे) अनु वहन्ति पुनः पुनः प्राप्नुवन्ति च (सोमपीथम्) सोमपानम् (वसिष्ठाः) येऽतिशयेन धनिनः (तेभिः) तैः (यमः) न्यायी संयमी सन्तानः (संरराणः) सम्यक्सुखानि राति ददाति सः (हवींषि) अत्तुमर्हाण्यन्नादीनि (उशन्) कामयमानः (उशद्भिः) कामयमानैः (प्रतिकामम्) कामं कामं प्रतीति प्रतिकामम् (अत्तु) भुङ्क्ताम्॥५१॥

    भावार्थः - पितृभिः पुत्रैः सह पुत्रैः पितृभिः सह च सर्वे सुखदुःखभोगाः कार्य्याः, प्रतिक्षणं सुखं वर्द्धनीयं दुःखं च ह्रासनीयम्॥५१॥

    इस भाष्य को एडिट करें
    Top