यजुर्वेद - अध्याय 23/ मन्त्र 58
ऋषिः - प्रजापतिर्ऋषिः
देवता - समिधा देवता
छन्दः - निचृत त्रिष्टुप्
स्वरः - धैवतः
7
षड॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमाः॑ स॒मिधो॑ ह ति॒स्रः।य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑रऽऋतु॒शो य॑जन्ति॥५८॥
स्वर सहित पद पाठषट्। अ॒स्य॒। वि॒ष्ठाः। वि॒स्था इति॑ वि॒ऽस्थाः। श॒तम्। अ॒क्षरा॑णि। अ॒शी॒तिः। होमाः॑। स॒मिध॒ इति॑ स॒म्ऽइधः॑। ह॒। ति॒स्रः। य॒ज्ञस्य॑। ते॒ वि॒दथा॑। प्र। ब्र॒वी॒मि॒। स॒प्त। होता॑रः। ऋ॒तु॒श इति॑ ऋतु॒ऽशः। य॒ज॒न्ति॒ ॥५८ ॥
स्वर रहित मन्त्र
षडस्य विष्ठाः शतमक्षराण्यशीतिर्हामाः समिधो ह तिस्रः । यज्ञस्य ते विदथा प्रब्रवीमि सप्त होतारऽऋतुशो यजन्ति ॥
स्वर रहित पद पाठ
षट्। अस्य। विष्ठाः। विस्था इति विऽस्थाः। शतम्। अक्षराणि। अशीतिः। होमाः। समिध इति सम्ऽइधः। ह। तिस्रः। यज्ञस्य। ते विदथा। प्र। ब्रवीमि। सप्त। होतारः। ऋतुश इति ऋतुऽशः। यजन्ति॥५८॥
विषयः - पूर्वप्रश्नानामुत्तराण्याह॥
अन्वयः - हे जिज्ञासवोऽस्य यज्ञस्य षट् विष्ठाः शतमक्षराण्यशीतिर्होमास्तिस्रो ह समिधः सप्त होतार ऋतुशो यजन्ति तस्य विदथा तेऽहं प्रब्रवीमि॥५८॥
पदार्थः -
(षट्) ऋतवः (अस्य) (विष्ठाः) (शतम्) (अक्षराणि) उदकानि (अशीतिः) उपलक्षणमेतदसंख्यस्य (होमाः) (समिधः) समिध्यते प्रदीप्यते ज्ञानं याभिस्ताः (ह) किल (तिस्रः) (यज्ञस्य) (ते) तुभ्यम् (विदथा) विज्ञानानि (प्र) प्रकर्षेण (ब्रवीमि) (सप्त) पञ्च प्राणा मन आत्मा च (होतारः) दातार आदातारः (ऋतुशः) (यजन्ति)॥५८॥
भावार्थः - हे ज्ञानमीप्सवो जनाः! यस्मिन् यज्ञे षड् ऋतवः स्थितिसाधका, असंख्यानि जलादीनि वस्तूनि व्यवहारसाधकानि, बहवो व्यवहारयोग्याः पदार्थाः, सर्वे प्राण्यप्राणिनो होत्रादयः संगच्छन्ते, यत्र च ज्ञानादिप्रकाशिकाः त्रिविधा विद्याः सन्ति, तं यज्ञं यूयं विजानीत॥५८॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal