यजुर्वेद - अध्याय 23/ मन्त्र 7
ऋषिः - प्रजापतिर्ऋषिः
देवता - इन्द्रो देवता
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
4
यद्वातो॑ऽअ॒पोऽअग॑नीगन्प्रि॒यामिन्द्र॑स्य त॒न्वम्। ए॒तस्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्त्तयासि नः॥७॥
स्वर सहित पद पाठयत्। वातः॑। अ॒पः। अग॑नीगन्। प्रि॒याम्। इन्द्र॑स्य। त॒न्व᳖म्। ए॒तम्। स्तो॒तः॒। अ॒नेन॑। प॒था। पुनः॑। अश्व॑म्। आ। व॒र्त्त॒या॒सि॒। नः॒ ॥७ ॥
स्वर रहित मन्त्र
यद्वातोऽअपोऽअगनीगन्प्रियामिन्द्रस्य तन्वम् । एतँ स्तोतरनेन पथा पुनरश्वमा वर्तयासि नः ॥
स्वर रहित पद पाठ
यत्। वातः। अपः। अगनीगन्। प्रियाम्। इन्द्रस्य। तन्वम्। एतम्। स्तोतः। अनेन। पथा। पुनः। अश्वम्। आ। वर्त्तयासि। नः॥७॥
विषयः - पुनर्मनुष्यः कस्य सङ्गं कुर्य्यादित्याह॥
अन्वयः - हे स्तोतर्यथा शिल्पिजना इन्द्रस्य प्रियां तन्वं वात इव प्राप्य यद्यमपोऽगनीगँस्तथैतमश्वमनेन पथा त्वं प्राप्नोषि पुनर्नोस्मानावर्त्तयासि तं भवन्तं वयं सत्कुर्याम॥७॥
पदार्थः -
(यत्) यं कलायन्त्राश्वम् (वातः) वायुः (अपः) जलानि (अगनीगन्) प्राप्नुवन्ति (प्रियाम्) कमनीयम् (इन्द्रस्य) विद्युतः (तन्वम्) विस्तृतं शरीरम् (एतम्) (स्तोतः) स्तावक (अनेन) (पथा) मार्गेण (पुनः) (अश्वम्) आशुगामिनम् (आ) (वर्त्तयासि) वर्त्तयेः (नः) अस्मान्॥७॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! ये युष्मान् सुमार्गेण गमयन्ति, तत्सङ्गेन यूयं वायुविद्युदादिविद्यां प्राप्नुत॥७॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal