Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 24
    ऋषिः - वत्स ऋषिः देवता - यज्ञो देवता छन्दः - ब्राह्मी जगती,याजुषी पङ्क्ति, स्वरः - निषादः, पञ्चमः
    3

    ए॒ष ते॑ गाय॒त्रो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒ सा॑म्राज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒कोऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु॥२४॥

    स्वर सहित पद पाठ

    ए॒षः। ते॒। गा॒य॒त्रः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। ए॒षः। ते॒। त्रैष्टु॑भः। त्रैस्तु॑भ॒ इति त्रैऽस्तु॑भः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। ए॒षः। ते॒। जाग॑तः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। छ॒न्दो॒ना॒माना॒मिति॑ छन्दःऽना॒माना॑म्। साम्रा॑ज्य॒मिति॒ साम्ऽरा॑ज्यम्। ग॒च्छ॒। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। आ॒स्मा॒कः। अ॒सि॒। शु॒क्रः। ते॒। ग्रह्यः॑। वि॒चित॒ इति॑ वि॒ऽचितः॑। त्वा॒। वि। चि॒न्व॒न्तु॒ ॥२४॥


    स्वर रहित मन्त्र

    एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताच्छन्दोनामानाँ साम्राज्यङ्गच्छेति मे सोमाय ब्रूतादास्माकोसि शुक्रस्ते ग्रह्यो विचितस्त्वा विचिन्वन्तु ॥


    स्वर रहित पद पाठ

    एषः। ते। गायत्रः। भागः। इति। मे। सोमाय। ब्रूतात्। एषः। ते। त्रैष्टुभः। त्रैस्तुभ इति त्रैऽस्तुभः। भागः। इति। मे। सोमाय। ब्रूतात। एषः। ते। जागतः। भागः। इति। मे। सोमाय। ब्रूतात्। छन्दोनामानामिति छन्दःऽनामानाम्। साम्राज्यमिति साम्ऽराज्यम्। गच्छ। इति। मे। सोमाय। बूतात्। आस्माकः। असि। शुक्रः। ते। ग्रह्यः। विचित इति विऽचितः। त्वा। वि। चिन्वन्तु॥२४॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 24
    Acknowledgment

    अन्वयः - हे विद्वंस्त्वं विद्वांसं प्रति कोऽस्य यज्ञस्य गायत्रो भागोऽस्तीति पृच्छ, स विद्वान् ते तवैषोऽयमस्तीति मे मह्यं सोमायैतं ब्रूताद् ब्रवीतूपदिशतु। कोऽस्य यज्ञस्य त्रैष्टुभो भागोऽस्तीति त्वं पृच्छ, स ते तवैषोऽयमस्तीति समक्षे खल्वेतं मे मह्यं सोमाय ब्रूतात्। कोऽस्य यज्ञस्य जागतो भागोऽस्तीति त्वं पृच्छ, स ते तवैषोऽयमस्तीति प्रसिद्ध्यैतं सोमाय मे मह्यं ब्रूतात्। यथा भवांश्छन्दोनामानामुष्णिगादीनां छन्दसां मध्ये प्रतिपादितस्य यज्ञस्योपदेशे साम्राज्यं गच्छतु, तथैवैतेषामेनं सोमाय मे मह्यं ब्रूतात्। यस्त्वमास्माकः शुक्रोऽसि तस्मात् ते तवाहं विचितो ग्रह्योऽस्मि, त्वं मां सर्वैरेतैर्विचिनुहि, अहं त्वां विचिनोम्येव, सोऽपि सर्वे त्वामेतं यज्ञं मां च विचिन्वन्तु वर्धयन्तु॥२४॥

    पदार्थः -
    (एषः) प्रत्यक्षः (ते) तव (गायत्रः) गायत्रीप्रगाथोऽस्य सः। सोऽस्यादिरितिच्छन्दसः प्रगाथेषु। (अष्टा॰४.२.५५) अनेन प्रगाथविषये प्रत्ययः (भागः) सेवनीयः (इति) प्रकारार्थे (मे) मह्यम् (सोमाय) पदार्थविद्यासम्पादकाय (ब्रूतात्) ब्रवीतु (एषः) यो विज्ञातुं योग्यः सः (ते) तव (त्रैष्टुभः) त्रिष्टुप् प्रगाथोऽस्य सः (भागः) अंशः (इति) प्रकारे (मे) मह्यम् (सोमाय) उत्तमरससम्पादकाय (ब्रूतात्) ब्रवीतु (एषः) योक्तुमर्हः (ते) तव (जागतः) जगती प्रगाथोऽस्य सः (भागः) स्वीकर्त्तुमर्हः (इति) प्रकारार्थे (मे) मह्यम् (सोमाय) पदार्थविद्यास्वीकारकाय (ब्रूतात्) उपदिशतु (छन्दोनामानाम्) यानि छन्दसामुष्णिगादीनां नामानि तेषाम्। अत्र अनसन्तान्न॰। (अष्टा॰५.४.१०३) इति सूत्रेण सामासान्तष्टच् प्रत्ययः (साम्राज्यम्) सम्यग्राजन्ते प्रकाशन्ते ते सम्राजो राजानस्तेषां भावः कर्म वा तत् (गच्छ) प्राप्नुहि प्रापय वा (इति) प्रकारे (मे) मह्यम् (सोमाय) ऐश्वर्य्ययुक्ताय राज्याय (ब्रूतात्) ब्रवीतु (आस्माकः) योऽस्माकमयमुपदेष्टाऽधिपतिः सः (असि) वर्त्तसे (शुक्रः) पवित्रः पवित्रकारको वा (ते) तव (ग्रह्यः) ग्रहीतुं योग्यः (विचितः) विविधविद्याशुभगुणधनादिभिश्चितः संयुक्तः (त्वा) त्वां तं वा (वि) विविधार्थे (चिन्वन्तु) वर्धयन्तु। अत्रान्तर्गतो ण्यर्थः। अयं मन्त्रः (शत॰३.३.२.४-८) व्याख्यातः॥२४॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या विद्वद्भ्यः पृष्ट्वा सर्वा विद्याः संगृह्णीरन्। विद्वांसः खल्वेताः संग्राहयन्तु, परस्परमनुग्राह्यानुग्राहकभावेन वर्त्तित्वा सर्वे वृद्धिं प्राप्य चक्रवर्त्तिराज्यं सेवेरन्निति॥२४॥

    इस भाष्य को एडिट करें
    Top