Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 8
    ऋषिः - आत्रेय ऋषिः देवता - ईश्वरो देवता छन्दः - आर्षी अनुष्टुप् स्वरः - गान्धारः
    6

    विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्त्तो॑ वुरीत स॒ख्यम्। विश्वो॑ रा॒यऽइ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑॥८॥

    स्वर सहित पद पाठ

    विश्वः॑। दे॒वस्य॑। ने॒तुः। मर्त्तः॑। वु॒री॒त॒। स॒ख्यम्। विश्वः॑। रा॒ये। इ॒षु॒ध्य॒ति॒। द्यु॒म्नम्। वृ॒णी॒त॒। पु॒ष्यसे॑। स्वाहा॑ ॥८॥


    स्वर रहित मन्त्र

    विश्वो देवस्य नेतुर्मर्ता वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नँ वृणीत पुष्यसे स्वाहा ॥


    स्वर रहित पद पाठ

    विश्वः। देवस्य। नेतुः। मर्त्तः। वुरीत। सख्यम्। विश्वः। राये। इषुध्यति। द्युम्नम्। वृणीत। पुष्यसे। स्वाहा॥८॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 8
    Acknowledgment

    अन्वयः - यथा विश्वो मर्त्तो नेतुर्देवस्य जगदीश्वरस्य सख्यं वुरीत विश्वो राय इषुध्यति। स द्युम्नं वृणीत, तथा हे मनुष्य! एतत्सर्वमनुष्ठाय स्वाहा सत्क्रियया त्वमपि पुष्यसे पुष्टो भवेः॥८॥

    पदार्थः -
    (विश्वः) सर्वो जनः (देवस्य) सर्वप्रकाशकस्य (नेतुः) सर्वनयनकर्त्तुः परमेश्वरस्य (मर्त्तः) मनुष्यः, मर्त्ता इति मनुष्यनामसु पठितम्। (निघं॰२.३) (वुरीत) वृणीयात्, अत्र बहुलं छन्दसि। [अष्टा॰२.४.७३] इति विकरणस्य लुक् (सख्यम्) सख्युर्भावः कर्म वा (विश्वः) अखिलः (राये) धनप्राप्तये (इषुध्यति) शरान् धारयेत्, लेट् प्रयोगोऽयम् (द्युम्नम्) धनम् (वृणीत) स्वीकुर्य्यात् (पुष्यसे) पुष्टो भवेः, अत्र व्यत्ययेनात्मनेपदम्, लेट् प्रयोगोऽयम् (स्वाहा) सत्क्रियया। अयं मन्त्रः (शत॰३.१.४.१७-२८) व्याख्यातः॥८॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। सर्वैर्मनुष्यैः परमेश्वरमुपास्य परस्परं मित्रतां कृत्वा युद्धे दुष्टान् विजित्य राजश्रियं प्राप्य सुखयितव्यम्॥८॥

    इस भाष्य को एडिट करें
    Top