यजुर्वेद - अध्याय 4/ मन्त्र 37
ऋषिः - गोतम ऋषिः
देवता - यज्ञो देवता
छन्दः - निचृत् आर्षी त्रिष्टुप्
स्वरः - धैवतः
5
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम्। ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॑न्॥३७॥
स्वर सहित पद पाठया। ते॒। धामा॑नि। ह॒विषा॑। यज॑न्ति। ता। ते॒। विश्वा॑। प॒रि॒भूरिति॑ परि॒ऽभूः। अ॒स्तु॒। य॒ज्ञम्। ग॒य॒स्फान॒ इति॑ गय॒ऽस्फानः॑। प्र॒तर॑ण॒ इति॑ प्र॒ऽतर॑णः। सु॒वीर॒ इति॑ सु॒ऽवीरः॑। अवी॑र॒हेत्यवी॑रऽहा। प्र। च॒र॒। सो॒म॒। दुर्य्या॑न् ॥३७॥
स्वर रहित मन्त्र
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् । गयस्पानः प्रतरणः सुवीरो वीरहा प्रचरा सोम दुर्यान् ॥
स्वर रहित पद पाठ
या। ते। धामानि। हविषा। यजन्ति। ता। ते। विश्वा। परिभूरिति परिऽभूः। अस्तु। यज्ञम्। गयस्फान इति गयऽस्फानः। प्रतरण इति प्रऽतरणः। सुवीर इति सुऽवीरः। अवीरहेत्यवीरऽहा। प्र। चर। सोम। दुर्य्यान्॥३७॥
विषयः - पुनरेतौ कीदृशावित्युपदिश्यते॥
अन्वयः - हे जगदीश्वर! यथा विद्वांसो यानि ते तव धामानि हविषा यजन्ति, तथा ता तानि विश्वा सर्वाणि वयमपि यजेमैतेषां यथा यस्ते तव गयस्फानः प्रतरणः सुवीरोऽवीरहा परिभूर्यज्ञःप्रदोऽस्ति, तथा स भवत्कृपयाऽस्मभ्यमपि सुखकार्य्यस्तु। हे सोम विद्वन्! यथा वयमेतं यज्ञमनुष्ठाय गृहेषु प्रचरेम विजानीयामानुतिष्ठेम तथा त्वमप्येतं दुर्य्यान् गृहाणि प्रचर, विजानीह्यनुतिष्ठ॥३७॥
पदार्थः -
(या) यानि। अत्र सर्वत्र शेश्छन्दसि॰। [अष्टा॰६.१.७०] इति शेर्लोपः (ते) तव तस्य वा (धामानि) अधिकरणानि द्रव्याणि (हविषा) ग्राह्येण दातव्येन पदार्थेन साधकेन वा (यजन्ति) पूजयन्ति सङ्गमयन्ति वा (ता) तानि (ते) तव तस्य वा (विश्वा) सर्वाणि (परिभूः) परितः सर्वतो भवतीति (अस्तु) भवतु (यज्ञम्) यष्टुमर्हम् (गयस्फानः) गयानामपत्यधनगृहाणां स्फानो वर्धयिता। गय इत्यपत्यनामसु पठितम्। (निघं॰२.२) धननामसु। (निघं॰२.१०) गृहनामसु च। (निघं॰३.४) (प्रतरणः) प्रतरति दुःखानि येन सः (सुवीरः) शोभना वीरा यस्मिन् सः (अवीरहा) अवीरान् कातरान् मनुष्यान् हन्ति येन सः। अत्र कृतो बहुलम्। [अष्टा॰भा॰वा॰ ३.३.११३] इति करणे क्विप् (प्रचर) विजानीह्यनुतिष्ठ (सोम) सोमविद्यासम्पादक विद्वन् (दुर्य्यान्) गृहाणि। दुर्य्या इति गृहनामसु पठितम्। (निघं॰२.४)। अयं मन्त्रः (शत॰३.३.४.३०) व्याख्यातः॥३७॥
भावार्थः - अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। यथा विद्वांस ईश्वरे प्रीतिं संसारे यज्ञानुष्ठानं कुर्वन्ति, तथैव सर्वैर्मनुष्यैरनुष्ठेयम्॥३७॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal