अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
उ॒रुः प्र॑थस्व मह॒ता म॑हि॒म्ना स॒हस्र॑पृष्ठः सुकृ॒तस्य॑ लो॒के। पि॑ताम॒हाः पि॒तरः॑ प्र॒जोप॒जाऽहं प॒क्ता प॑ञ्चद॒शस्ते॑ अस्मि ॥
स्वर सहित पद पाठउ॒रु: । प्र॒थ॒स्व॒ । म॒ह॒ता । म॒हि॒म्ना । स॒हस्र॑ऽपृष्ठ: । सु॒ऽकृ॒तस्य॑ । लो॒के । पि॒ता॒म॒हा: । पि॒तर॑: । प्र॒ऽजा । उ॒प॒ऽजा । अ॒हम् । प॒क्ता । प॒ञ्च॒ऽद॒श: । ते॒ । अ॒स्मि॒ ॥१.१९॥
स्वर रहित मन्त्र
उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके। पितामहाः पितरः प्रजोपजाऽहं पक्ता पञ्चदशस्ते अस्मि ॥
स्वर रहित पद पाठउरु: । प्रथस्व । महता । महिम्ना । सहस्रऽपृष्ठ: । सुऽकृतस्य । लोके । पितामहा: । पितर: । प्रऽजा । उपऽजा । अहम् । पक्ता । पञ्चऽदश: । ते । अस्मि ॥१.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(उरुः) विस्तीर्णः (प्रथस्व) प्रख्यातो भव (महता) अधिकेन (महिम्ना) महत्त्वेन (सहस्रपृष्ठः) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। पृषु सेचने-थक्। पृष्ठं शरीरस्य पश्चाद्भागः स्तोत्रं वा। सहस्राणि स्तोत्राणि यस्य सः परमेश्वरः (सुकृतस्य) सुकर्मणः (लोके) समाजे (पितामहाः) अ० ५।५।१। पितुः पितृतल्याः पितामहादयः (पितरः) पितृसदृशा माननीयाः (प्रजा) सन्तानः (उपजा) सन्तानस्य सन्तानः (अहम्) प्राणी (पक्ता) मनसि दृढकर्ता (पञ्चदशः) अ० ८।९।१५। संख्याऽव्ययासन्नादूराधिकसंख्याः संख्येये। पा० २।२।२५। इति पञ्चाधिका दश यत्र स पञ्चदशः। बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। पञ्चदशन्-डच्। पञ्चप्राणेन्द्रियभूतानि यस्मिन् स जीवात्मा (ते) तव (अस्मि) ॥
इस भाष्य को एडिट करें