Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 25
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - विराड्जगती सूक्तम् - ब्रह्मौदन सूक्त

    शृ॒तं त्वा॑ ह॒व्यमुप॑ सीदन्तु दै॒वा निः॒सृप्या॒ग्नेः पुन॑रेना॒न्प्र सी॑द। सोमे॑न पू॒तो ज॒ठरे॑ सीद ब्र॒ह्मणा॑मार्षे॒यास्ते॒ मा रि॑षन्प्राशि॒तारः॑ ॥

    स्वर सहित पद पाठ

    शृ॒तम् । त्वा॒ । ह॒व्यम् । उप॑ । सी॒द॒न्तु॒ । दै॒वा: । नि॒:ऽसृप्य॑ । अ॒ग्ने: । पुन॑: । ए॒ना॒न् । प्र । सी॒द॒ । सोमे॑न । पू॒त: । ज॒ठरे॑ । सी॒द॒ । ब्र॒ह्मणा॑म् । आ॒र्षे॒या: । ते॒ । मा । रि॒ष॒न् । प्र॒ऽअ॒शि॒तार॑: ॥१.२५


    स्वर रहित मन्त्र

    शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान्प्र सीद। सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन्प्राशितारः ॥

    स्वर रहित पद पाठ

    शृतम् । त्वा । हव्यम् । उप । सीदन्तु । दैवा: । नि:ऽसृप्य । अग्ने: । पुन: । एनान् । प्र । सीद । सोमेन । पूत: । जठरे । सीद । ब्रह्मणाम् । आर्षेया: । ते । मा । रिषन् । प्रऽअशितार: ॥१.२५

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 25

    टिप्पणीः - २५−(शृतम्) श्रा पाके-क्त। शृतं पाके। पा० ६।१।२७। इति शृभावः। परिपक्वम् (त्वा) त्वाम्। ओदनम् (हव्यम्) ग्राह्यत (उप सीदन्तु) समीपे तिष्ठन्तु (दैवाः) दिव्यगुणाः पुरुषाः (निः सृप्य) निर्गत्य (अपि) सम्भावनायाम् (अग्नेः) पावकात् (पुनः) अवश्यम् (एनान्) उपसत्तॄन् (प्र सीद) प्रसन्नान् कुरु। संतोषय (सोमेन) अमृतरसेन (पूतः) शोधितः (जठरे) उदरे (सीद) उपविश (ब्रह्मणाम्) ब्रह्मज्ञानिनाम् (आर्षेयाः) म० १६। ऋषिषु विख्याताः (ते) तव (मा रिषन्) मा विनश्यन्तु (प्राशितारः) प्रकर्षेण भोक्तारः ॥

    इस भाष्य को एडिट करें
    Top