Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 29
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - भुरिग्विराड्जगती सूक्तम् - ब्रह्मौदन सूक्त

    अ॒ग्नौ तुषा॒ना व॑प जा॒तवे॑दसि प॒रः क॒म्बूकाँ॒ अप॑ मृड्ढि दू॒रम्। ए॒तं शु॑श्रुम गृहरा॒जस्य॑ भा॒गमथो॑ विद्म॒ निरृ॑तेर्भाग॒धेय॑म् ॥

    स्वर सहित पद पाठ

    अ॒ग्नौ । तुषा॑न् । आ । व॒प॒ । जा॒तऽवे॑दसि । प॒र: । क॒म्बूका॑न् । अप॑ । मृ॒ड्ढि॒ । दू॒रम् । ए॒तम् । शु॒श्रु॒म॒ । गृ॒ह॒ऽरा॒जस्य॑ । भा॒गम् । अथो॒ इति॑ । वि॒द्म॒ । नि:ऽऋ॑ते: । भा॒ग॒ऽधेय॑म् ॥१.२९॥


    स्वर रहित मन्त्र

    अग्नौ तुषाना वप जातवेदसि परः कम्बूकाँ अप मृड्ढि दूरम्। एतं शुश्रुम गृहराजस्य भागमथो विद्म निरृतेर्भागधेयम् ॥

    स्वर रहित पद पाठ

    अग्नौ । तुषान् । आ । वप । जातऽवेदसि । पर: । कम्बूकान् । अप । मृड्ढि । दूरम् । एतम् । शुश्रुम । गृहऽराजस्य । भागम् । अथो इति । विद्म । नि:ऽऋते: । भागऽधेयम् ॥१.२९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 29

    टिप्पणीः - २९−(अग्नौ) पावके (तुषान्) धान्यत्वचः (आ वप) प्रक्षिप (जातवेदसि) उत्पन्नपदार्थेषु विद्यमाने (परः) परस्तात् (कम्बूकान्) उलूकादयश्च। उ० ४।४१। कमु कान्तौ-ऊक, बुगागमः। बल्कलानि (अप मृड्ढि) मृजू शौचालङ्कारयोः-लोट्, अदादिश्चुरादिश्च। विशेषेण मार्जय शोधय (दूरम्) (एतम्) (शुश्रुम) वयं श्रुतवन्तः (गृहराजस्य) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। इति टच्। गार्हपत्यस्याग्नेः (भागम्) अंशम् (अथो) अपि च (विद्म) विदो लटो वा। पा० ३।४।८३। मसो मादेशः। विद्मः। जानीमः (निर्ऋतेः) निः+ऋ गतौ-क्तिन्। नितराम् ऋतिर्गतिर्यस्याः सा निर्ऋतिः। तस्याः पृथिव्याः। निर्ऋतिः पृथिवीनाम-निघ० १।१। निर्ऋतिर्निरमणाद् ऋच्छतेः कृच्छ्रापत्तिरितरा-निरु० २।७। (भागधेयम्) भागम् ॥

    इस भाष्य को एडिट करें
    Top