Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 11
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    शत्रू॑षाण्नी॒षाड॑भिमातिषा॒हो ग॒वेष॑णः॒ सह॑मान उ॒द्भित्। वा॒ग्वीव॒ मन्त्रं॒ प्र भ॑रस्व॒ वाचं सांग्रा॑मजित्या॒येष॒मुद्व॑दे॒ह ॥

    स्वर सहित पद पाठ

    श॒त्रू॒षाट् । नी॒षाट् । अ॒भि॒मा॒ति॒ऽस॒ह: । गो॒ऽएष॑ण: । सह॑मान: । उ॒त्ऽभित् । वा॒ग्वीऽइ॑व । मन्त्र॑म् । प्र । भ॒र॒स्व॒ । वाच॑म् । संग्रा॑मऽजित्याय । इष॑म् । उत् । व॒द॒ । इह॒ ॥२०.११॥


    स्वर रहित मन्त्र

    शत्रूषाण्नीषाडभिमातिषाहो गवेषणः सहमान उद्भित्। वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥

    स्वर रहित पद पाठ

    शत्रूषाट् । नीषाट् । अभिमातिऽसह: । गोऽएषण: । सहमान: । उत्ऽभित् । वाग्वीऽइव । मन्त्रम् । प्र । भरस्व । वाचम् । संग्रामऽजित्याय । इषम् । उत् । वद । इह ॥२०.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 11

    टिप्पणीः - ११−(शत्रूषाट्) छन्दसि सहः। पा० ३।२।६३। इति शत्रु+षह अभिभवे−ण्वि। शत्रूणामभिभविता (नीषाट्) नि+सह−ण्वि। नित्यजयशीलः (अभिमातिषाहः) अभिमानिनां दमनशीलः (गवेषणः) गो+इषु इच्छायाम्−ल्युट्। गोर्भूमेर्वाण्या विद्याया वा अन्वेष्टा (सहमानः) शासनं कुर्वन् (उद्भित्) उत्कर्षेण भेदकः (वाग्वी) वाच−विनि। वाग्मी पुरुषः (इव) यथा (मन्त्रम्) मन्त्रा मननात् (निरु० ५।१२। शुभविचारम् (प्र) प्रकर्षेण (भरस्व) भर। उच्चारयेत्यर्थः (वाचम्) वाणीम् (संग्रामजित्याय) जि−क्यप् तुक् च। युद्धजयाय (इषम्) अ० ३।१०।७। अन्नम्−निघ० २।७। (उत्) उत्कर्षेण (वद) ब्रूहि (इह) अस्यां दशायाम् ॥

    इस भाष्य को एडिट करें
    Top