अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
सं॒जय॒न्पृत॑ना ऊ॒र्ध्वमा॑यु॒र्गृह्या॑ गृह्णा॒नो ब॑हु॒धा वि च॑क्ष्व। दैवीं॒ वाचं॑ दुन्दुभ॒ आ गु॑रस्व वे॒धाः शत्रू॑णा॒मुप॑ भरस्व॒ वेदः॑ ॥
स्वर सहित पद पाठस॒म्ऽजय॑न् । पृत॑ना: । ऊ॒र्ध्वऽमा॑यु: । गृह्या॑: । गृ॒ह्णा॒न: । ब॒हु॒धा । वि । च॒क्ष्व॒ । दैवी॑म् । वाच॑म् । दु॒न्दु॒भे॒ । आ । गु॒र॒स्व॒ । वे॒धा: । शत्रू॑णाम् । उप॑ । भ॒र॒स्व॒ । वेद॑: ॥२०.४॥
स्वर रहित मन्त्र
संजयन्पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व। दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥
स्वर रहित पद पाठसम्ऽजयन् । पृतना: । ऊर्ध्वऽमायु: । गृह्या: । गृह्णान: । बहुधा । वि । चक्ष्व । दैवीम् । वाचम् । दुन्दुभे । आ । गुरस्व । वेधा: । शत्रूणाम् । उप । भरस्व । वेद: ॥२०.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(वृषा) बलीवर्दः (इव) यथा (यूथे) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। इति यु मिश्रणामिश्रणयोः। थक्। सजातीयसमूहे (सहसा) बलेन (विदानः) विद ज्ञाने−शानच् क्तार्थे। विदितः (गव्यन्) सुप आत्मनः क्यच्। पा० ३।१।८। इति गो−क्यच्। गां भूमिमिच्छन् (अभि) (रुव) गर्ज (संधनाजित्) छान्दसो दीर्घः। सम्यग्धनानां जेता (शुचा) शोकेन (विध्य) छिन्धि (हृदयम्) अन्तःकरणम् (परेषाम्) शत्रूणाम् (हित्वा) ओहाक् त्यागे। (त्यक्त्वा (ग्रामान्) निवासदेशान् (प्रच्युताः) पराजिताः (यन्तु) गच्छन्तु (शत्रवः) वैरिणः ॥
इस भाष्य को एडिट करें