Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    वृषे॑व यू॒थे सह॑सा विदा॒नो ग॒व्यन्न॒भि रु॑व संधनाजित्। शु॒चा वि॑ध्य॒ हृद॑यं॒ परे॑षां हि॒त्वा ग्रामा॒न्प्रच्यु॑ता यन्तु॒ शत्र॑वः ॥

    स्वर सहित पद पाठ

    वृषा॑ऽइव । यू॒थे । सह॑सा । वि॒दा॒न: । ग॒व्यन् । अ॒भि । रु॒व॒ । सं॒ध॒न॒ऽजि॒त् । शु॒चा । वि॒ध्य॒ । हृद॑यम् । परे॑षाम् । हि॒त्वा । ग्रामा॑न् । प्रऽच्यु॑ता: । य॒न्तु॒ । शत्र॑व: ॥२०.३॥


    स्वर रहित मन्त्र

    वृषेव यूथे सहसा विदानो गव्यन्नभि रुव संधनाजित्। शुचा विध्य हृदयं परेषां हित्वा ग्रामान्प्रच्युता यन्तु शत्रवः ॥

    स्वर रहित पद पाठ

    वृषाऽइव । यूथे । सहसा । विदान: । गव्यन् । अभि । रुव । संधनऽजित् । शुचा । विध्य । हृदयम् । परेषाम् । हित्वा । ग्रामान् । प्रऽच्युता: । यन्तु । शत्रव: ॥२०.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 3

    टिप्पणीः - ३−(वृषा) बलीवर्दः (इव) यथा (यूथे) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। इति यु मिश्रणामिश्रणयोः। थक्। सजातीयसमूहे (सहसा) बलेन (विदानः) विद ज्ञाने−शानच् क्तार्थे। विदितः (गव्यन्) सुप आत्मनः क्यच्। पा० ३।१।८। इति गो−क्यच्। गां भूमिमिच्छन् (अभि) (रुव) गर्ज (संधनाजित्) छान्दसो दीर्घः। सम्यग्धनानां जेता (शुचा) शोकेन (विध्य) छिन्धि (हृदयम्) अन्तःकरणम् (परेषाम्) शत्रूणाम् (हित्वा) ओहाक् त्यागे। (त्यक्त्वा (ग्रामान्) निवासदेशान् (प्रच्युताः) पराजिताः (यन्तु) गच्छन्तु (शत्रवः) वैरिणः ॥

    इस भाष्य को एडिट करें
    Top