अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 15
क्रो॒ड आ॑सीज्जामिशं॒सस्य॒ सोम॑स्य॒ क॒लशो॑ धृ॒तः। दे॒वाः सं॒गत्य॒ यत्सर्व॑ ऋष॒भं व्यक॑ल्पयन् ॥
स्वर सहित पद पाठक्रो॒ड: । आ॒सी॒त् । जा॒मि॒ऽशं॒सस्य॑ । सोम॑स्य । क॒लश॑: । धृ॒त: । दे॒वा: । स॒म्ऽगत्य॑ । यत् । सर्वे॑ । ऋ॒ष॒भम् । वि॒ऽअक॑ल्पयन् ॥४.१५॥
स्वर रहित मन्त्र
क्रोड आसीज्जामिशंसस्य सोमस्य कलशो धृतः। देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥
स्वर रहित पद पाठक्रोड: । आसीत् । जामिऽशंसस्य । सोमस्य । कलश: । धृत: । देवा: । सम्ऽगत्य । यत् । सर्वे । ऋषभम् । विऽअकल्पयन् ॥४.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(क्रोडः) क्रुड बाल्ये-घञ्। अङ्कः। वक्षः (आसीत्) (जामिशंसस्य) नियो मिः। उ० ४।४३। या गतौ यद्वा ज्ञा ज्ञाने−मि, आदेर्जत्वम्। शंसु हिंसागत्योः-अ प्रत्ययः, टाप्। ज्ञातृषु विद्वत्सु शंसा प्रशंसा यस्य तस्य (सोमस्य) अमृतस्य (कलशः) जलपात्रम् (धृतः) स्थापितः (देवाः) विद्वांसः (संगत्य) मिलित्वा (यत्) यदा (सर्वे) (ऋषभम्) (व्यकल्पयन्) विविधं कल्पितवन्तः ॥
इस भाष्य को एडिट करें