अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 7
आज्यं॑ बिभर्ति घृ॒तम॑स्य॒ रेतः॑ साह॒स्रः पोष॒स्तमु॑ य॒ज्ञमा॑हुः। इन्द्र॑स्य रू॒पमृ॑ष॒भो वसा॑नः॒ सो अ॒स्मान्दे॑वाः शि॒व ऐतु॑ द॒त्तः ॥
स्वर सहित पद पाठआज्य॑म् । बि॒भ॒र्ति॒ । घृ॒तम् । अ॒स्य॒ । रेत॑: । सा॒ह॒स्र: । पोष॑: । तम् । ऊं॒ इति॑ । य॒ज्ञम् । आ॒हु॒: । इन्द्र॑स्य । रू॒पम् । ऋ॒ष॒भ: । वसा॑न: । स: । अ॒स्मान् । दे॒वा॒: । शि॒व: । आ । ए॒तु॒ । द॒त्त: ॥४.७॥
स्वर रहित मन्त्र
आज्यं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः। इन्द्रस्य रूपमृषभो वसानः सो अस्मान्देवाः शिव ऐतु दत्तः ॥
स्वर रहित पद पाठआज्यम् । बिभर्ति । घृतम् । अस्य । रेत: । साहस्र: । पोष: । तम् । ऊं इति । यज्ञम् । आहु: । इन्द्रस्य । रूपम् । ऋषभ: । वसान: । स: । अस्मान् । देवा: । शिव: । आ । एतु । दत्त: ॥४.७॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(आज्यम्) अ० ९।२।१। सर्वोपायम् (बिभर्ति) धरति (घृतम्) दीप्तम् (अस्य) ऋषभस्य (रेतः) सामर्थ्यम् (साहस्रः) म० १। सहस्रपराक्रमयुक्तः (पोषः) पोषकः (तम्) (उ) निश्चयेन (यज्ञम्) संयोजकवियोजकम् (आहुः) कथयन्ति विद्वांसः (इन्द्रस्य) ऐश्वर्यस्य (रूपम्) स्वरूपम् (ऋषभः) म० १। सर्वदर्शकः (वसानः) धारयन् (सः) (अस्मान्) पुरुषार्थिनः (देवाः) हे विद्वांसः (शिवः) मङ्गलकारी (आ एतु) सम्यक् प्राप्नोतु (दत्तः) आत्मनि रक्षिता ॥
इस भाष्य को एडिट करें