अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 22
पि॒शङ्ग॑रूपो नभ॒सो व॑यो॒धा ऐ॒न्द्रः शुष्मो॑ वि॒श्वरू॑पो न॒ आग॑न्। आयु॑र॒स्मभ्यं॒ दध॑त्प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचताम् ॥
स्वर सहित पद पाठपि॒शङ्ग॑ऽरूप: । न॒भ॒स: । व॒य॒:ऽधा: । ऐ॒न्द्र: । शुष्म॑: । वि॒श्वऽरू॑प: । न॒: । आ । अ॒ग॒न् । आयु॑: । अ॒स्मभ्य॑म् । दध॑त् । प्र॒ऽजाम् । च॒ । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ता॒म् ॥४.२३॥
स्वर रहित मन्त्र
पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन्। आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥
स्वर रहित पद पाठपिशङ्गऽरूप: । नभस: । वय:ऽधा: । ऐन्द्र: । शुष्म: । विश्वऽरूप: । न: । आ । अगन् । आयु: । अस्मभ्यम् । दधत् । प्रऽजाम् । च । राय: । च । पोषै: । अभि । न: । सचताम् ॥४.२३॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(पिशङ्गरूपः) विडादिभ्यः कित्। उ० १।१२१। पिश अवयवे-अङ्गच्, कित्। खष्पशिल्पशष्प०। उ० ३।२८। रु शब्दे-प प्रत्ययः, दीर्घः। यद्वा रूपं रूपस्य दर्शने करणे वा-अच्। अवयवानां रूपं दर्शनं यस्मात् सः (नभसः) अ० २।७९।२। सूर्यस्य मेघस्याकाशस्य वा (वयोधाः) जीवनधारकः (ऐन्द्रः) इन्द्राणामैश्वर्यवतां स्वामी (शुष्मः) बलवान् (विश्वरूपः) सर्वस्य जगतो रूपकर्ता (नः) अस्मान् (आ अगन्) प्राप्तवान् (आयुः) जीवनम् (अस्मभ्यम्) (दधत्) धारयन् (प्रजाम्) (च) (रायः) धनस्य (पोषैः) वृद्धिभिः (अभि) सर्वतः (नः) अस्मान् (सचताम्) षच सेचने। सिञ्चतु ॥
इस भाष्य को एडिट करें