Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 53
    ऋषिः - शुनःशेप ऋषिः देवता - इन्दु र्देवता छन्दः - आर्षी पङ्क्तिः स्वरः - पञ्चमः
    6

    इन्दु॒र्दुक्षः॑ श्ये॒नऽऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः। म॒हान्त्स॒धस्थे॑ ध्रु॒वऽआ निष॑त्तो॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिꣳसीः॥५३॥

    स्वर सहित पद पाठ

    इन्दुः॑। दक्षः॑। श्ये॒नः। ऋ॒तावे॑त्यृ॒तऽवा॑। हिर॑ण्यपक्ष॒ इति॒ हिर॑ण्यऽपक्षः। श॒कु॒नः। भु॒र॒ण्युः। म॒हान्। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। ध्रु॒वः। आ। निष॑त्तः। निऽस॑त्त इति॒ निऽस॑त्तः। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हि॒ꣳसीः॒ ॥५३ ॥


    स्वर रहित मन्त्र

    इन्दुर्दक्षः श्येनऽऋतावा हिरण्यपक्षः शकुनो भुरण्युः । महान्त्सधस्थे धु्रवऽआनिषत्तो नमस्तेऽअस्तु मा मा हिँसीः ॥


    स्वर रहित पद पाठ

    इन्दुः। दक्षः। श्येनः। ऋतावेत्यृतऽवा। हिरण्यपक्ष इति हिरण्यऽपक्षः। शकुनः। भुरण्युः। महान्। सधस्थ इति सधऽस्थे। ध्रुवः। आ। निषत्तः। निऽसत्त इति निऽसत्तः। नमः। ते। अस्तु। मा। मा। हिꣳसीः॥५३॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 53
    Acknowledgment

    अन्वयः - हे विद्वन्! सभेश यस्त्वमिन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युर्महान् सधस्थ आनिषत्तो ध्रुवः सन्मा मा हिंसीस्तस्मै तेऽस्माकं नमोऽस्तु॥५३॥

    पदार्थः -
    (इन्दुः) चन्द्र इव आर्द्रस्वभावः (दक्षः) बलचातुर्ययुक्तः (श्येनः) श्येन इव पराक्रमी (ऋतावा) ऋतस्य सत्यस्य सम्बन्धो विद्यते यस्य सः। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः। सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति डादेशः (हिरण्यपक्षः) हिरण्यस्य सुवर्णस्य पक्षः परिग्रहो यस्य सः (शकुनः) शक्तिमान् (भुरण्युः) भर्त्ता (महान्) (सधस्थे) सह स्थाने (ध्रुवः) निश्चलः (आ) समन्तात् (निषत्तः) नितरां स्थितः (नमः) सत्करणम् (ते) तुभ्यम् (अस्तु) (मा) निषेधे (मा) माम् (हिंसीः) ताडयेः॥५३॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। इह जगति विद्वांसः स्थिरा भूत्वा सर्वान् विद्यार्थिनः सुशिक्षितान् कुर्युर्यतस्ते हिंसका न भवेयुः॥५३॥

    इस भाष्य को एडिट करें
    Top