Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 54
    ऋषिः - गालव ऋषिः देवता - इन्दु र्देवता छन्दः - भुरिगार्ष्युष्णिक् स्वरः - ऋषभः
    3

    दि॒वो मू॒र्द्धासि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम्। वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे॥५४॥

    स्वर सहित पद पाठ

    दि॒वः। मू॒र्द्धा। अ॒सि॒। पृ॒थि॒व्याः। नाभिः॑। ऊर्क्। अ॒पाम्। ओष॑धीनाम्। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। शर्म॑। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। नमः॑। प॒थे ॥५४ ॥


    स्वर रहित मन्त्र

    दिवो मूर्धासि पृथिव्या नाभिरूर्गपामोषधीनाम् । विश्वायुः शर्म सप्रथा नमस्पथे ॥


    स्वर रहित पद पाठ

    दिवः। मूर्द्धा। असि। पृथिव्याः। नाभिः। ऊर्क्। अपाम्। ओषधीनाम्। विश्वायुरिति विश्वऽआयुः। शर्म। सप्रथा इति सऽप्रथाः। नमः। पथे॥५४॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 54
    Acknowledgment

    अन्वयः - हे विद्वन्! यस्त्वं दिवो मूर्द्धा पृथिव्या नाभिरपामोषधीनामूर्गिव विश्वायुः सप्रथा असि, स त्वं पथे नमः शर्म च प्राप्नुहि॥५४॥

    पदार्थः -
    (दिवः) प्रकाशस्य (मूर्द्धा) शिर इव वर्त्तमानः (असि) (पृथिव्याः) (नाभिः) बन्धनमिव (ऊर्क्) रसः (अपाम्) जलानाम् (ओषधीनाम्) (विश्वायुः) पूर्णायुः (शर्म) शरणम् (सप्रथाः) प्रथसा प्रख्यया सह वर्त्तमानः (नमः) अन्नम् (पथे) मार्गाय॥५४॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यो मनुष्यो न्यायवान् क्षमावान् औषधसेवी युक्ताहारविहारो जितेन्द्रियो भवति, स शतायुर्जायते॥५४॥

    इस भाष्य को एडिट करें
    Top