Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 56
    ऋषिः - गालव ऋषिः देवता - यज्ञो देवता छन्दः - आर्ष्युष्णिक् स्वरः - ऋषभः
    7

    इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः। तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒हा ग॑मेः॥५६॥

    स्वर सहित पद पाठ

    इ॒ष्टः। य॒ज्ञः। भृगु॑भि॒रिति॒ भृगु॑ऽभिः। आ॒शी॒र्दा इत्या॑शीः॒ऽदा। वसु॑भि॒रिति॒ वसु॑ऽभिः। तस्य॑। नः। इ॒ष्टस्य॑। प्री॒तस्य॑। द्रवि॑ण। इ॒ह। आ। ग॒मेः ॥५६ ॥


    स्वर रहित मन्त्र

    इष्टो यज्ञो भृगुभिराशीर्दा वसुभिः । तस्य नऽइष्टस्य प्रीतस्य द्रविणेहागमेः ॥


    स्वर रहित पद पाठ

    इष्टः। यज्ञः। भृगुभिरिति भृगुऽभिः। आशीर्दा इत्याशीःऽदा। वसुभिरिति वसुऽभिः। तस्य। नः। इष्टस्य। प्रीतस्य। द्रविण। इह। आ। गमेः॥५६॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 56
    Acknowledgment

    अन्वयः - हे विद्वन्! यो वसुभिर्भृगुभिराशीर्दा यज्ञ इष्टस्तस्येष्टस्य प्रीतस्य यज्ञस्य सकाशादिह त्वन्नो द्रविण आ गमेः॥५६॥

    पदार्थः -
    (इष्टः) कृतः (यज्ञः) यष्टुमर्हः (भृगुभिः) परिपक्वविज्ञानैः (आशीर्दाः) य इच्छासिद्धिं ददाति (वसुभिः) प्राथमकल्पिकैर्विद्वद्भिः (तस्य) (नः) अस्माकम् (इष्टस्य) (प्रीतस्य) कमनीयस्य (द्रविण) धनम्। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति विभक्तेर्लुक् (इह) संसारे (आ, गमेः) समन्ताद् गच्छ। वा छन्दसि सर्वे विधयो भवन्ति [अ॰१.४.९ भा॰] इति छत्वाभावः॥५६॥

    भावार्थः - ये विद्वद्वत् प्रयतन्ते, त इह पुष्कलां श्रियमाप्नुवन्ति॥५६॥

    इस भाष्य को एडिट करें
    Top