अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 1
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥
स्वर सहित पद पाठकेन॑ । पार्ष्णी॒ इति॑ । आभृ॑ते॒ इत्याऽभृ॑ते । पुरु॑षस्य । केन॑ । मां॒सम् । सम्ऽभृ॑तम् । केन॑ । गु॒ल्फौ । केन॑ । अ॒ङ्गुली॑: । पेश॑नी: । केन॑ । खानि॑ । केन॑ । उ॒त्ऽश्ल॒ङ्खौ । म॒ध्य॒त: । क: । प्र॒ति॒ऽस्थाम् ॥२.१॥
स्वर रहित मन्त्र
केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ। केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥
स्वर रहित पद पाठकेन । पार्ष्णी इति । आभृते इत्याऽभृते । पुरुषस्य । केन । मांसम् । सम्ऽभृतम् । केन । गुल्फौ । केन । अङ्गुली: । पेशनी: । केन । खानि । केन । उत्ऽश्लङ्खौ । मध्यत: । क: । प्रतिऽस्थाम् ॥२.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 1
विषय - पुरुष देह की रचना और उसके कर्त्ता पर विचार।
भावार्थ -
(पुरुषस्य) पुरुष, मनुष्य या प्राणी के देह के (पार्ष्णी) दोनों एडियां (केन) किसने (आभृते) बनाई हैं ? और (मांसं) मांस (केन) किसने (संभृतं) देह में लाकर लगाया ? (गुल्फौ केन) गुल्फ=टखने किसने लगाये ? (पेशनीः) पोरुओं वाली नाना अवयवों से युक्त (अङ्गुलीः केन) ये अंगुलियां किसने जोड़ दीं ? (खानि) शरीर के ये नाक, कान, मुंह आदि इन्द्रियों के छिद्र (केन) किसने बनाये ? (उत्श्लङ्खौ) सिर के ऊपर के दोनों कपाल (केन) किसने बनाये ? और (मध्यतः) बीच में (प्रतिष्ठाम्) बैठने के लिये चूतड़ भाग (कः) किसने बनाया ?
टिप्पणी -
(च०) ‘उच्छूलखौ’, ‘उच्छङ्खौ’ इति च क्वचित् पाठः। पदपाठोऽपि उत्-श्रृखौ, उत्-शङ्खौ इत्येव। (प्र०) ‘पार्ष्णयाभृते पौरुपस्य’ (तृ०) ‘पैशिनीः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - नारायण ऋषिः। पुरुषो देवता। पार्ष्णी सूक्तम्। ब्रह्मप्रकाशिसूक्तम्। १-४, ७, ८, त्रिष्टुभः, ६, ११ जगत्यौ, २८ भुरिगवृहती, ५, ४, १०, १२-२७, २९-३३ अनुष्टुभः, ३१, ३२ इति साक्षात् परब्रह्मप्रकाशिन्यावृचौ। त्रयस्त्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें