Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 31/ मन्त्र 1
    ऋषिः - नारायण ऋषिः देवता - पुरुषो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्।स भूमि॑ꣳ स॒र्वत॑ स्पृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒लम्॥१॥

    स्वर सहित पद पाठ

    सहस्र॑शी॒र्षेति॑ स॒हस्र॑ऽशीर्षा। पुरु॑षः। स॒ह॒स्रा॒क्ष इति॑ सहस्रऽअ॒क्षः। सहस्र॑पा॒दिति॑ स॒हस्र॑ऽपात् ॥ सः। भूमि॑म्। स॒र्वतः॑ स्पृ॒त्वा। अति॑। अ॒ति॒ष्ठ॒त्। द॒शा॒ङ्गु॒लमिति॑ दशऽअङ्गु॒लम् ॥१ ॥


    स्वर रहित मन्त्र

    सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिँ सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम्॥


    स्वर रहित पद पाठ

    सहस्रशीर्षेति सहस्रऽशीर्षा। पुरुषः। सहस्राक्ष इति सहस्रऽअक्षः। सहस्रपादिति सहस्रऽपात्॥ सः। भूमिम्। सर्वतः स्पृत्वा। अति। अतिष्ठत्। दशाङ्गुलमिति दशऽअङ्गुलम्॥१॥

    यजुर्वेद - अध्याय » 31; मन्त्र » 1
    Acknowledgment

    भावार्थ -
    ( सहस्रशीर्षाः ) हजारों, असंख्य शिरों वाला, (सहस्राक्षः) हजारों, अनन्त आंखों वाला, (सहस्रपात् ) हजारों, अनन्त पैरों वाला ( पुरुष ) 'पुरुष' सर्वत्र पूर्ण जगदीश्वर है । वह (भूमिम् ) सबको उत्पन्न करने वाली भूमि के समान सर्वाश्रय प्रकृति को (सर्वतः) सब प्रकार ( स्पृत्वा) व्यापकर ( दशाङ्गुलम् ) और भी दश अंगुल अर्थात् दश अंग विकार महत् आदि या पृथिवी आदि स्थूल और सूक्ष्म भूतों का ( अतिष्ठत् ) अतिक्रमण करके, उनमें भी व्याप्त होकर उनसे भी अधिक शक्तिमान् अध्यक्ष होकर विराजता है । (१) 'सहस्रशीर्षाः सहस्राक्षः सहस्रपात्' – सहस्त्रशब्दस्य उपलक्षणत्वाद् अनन्तैः शिरोभिर्युक्तः इत्यर्थः । यानि सर्वप्राणिना शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवं सहस्राक्षत्वं सहस्रपादत्वं चेति सायणो ऋग्भाष्ये । अर्थ- 'सहस्र' शब्द केवल उपलक्षण है । वह अनन्त शिरों से युक्त है, यह अभिप्राय है । सब प्राणियों के शिर उसी महान् पुरुष के देह के भीतर समा जाने से वे सब उसी के हैं । इससे उसके हजारों सिर हैं । इसी प्रकार उसकी हजारों आंखें और हजारों पैर भी हैं। सायण ऋ० भाष्य गीता में 'अनेकबाहूदरवक्त्रनेत्रम् ' । 'अनादिमध्यान्तमनन्तवीर्यमनन्त- बाहुम्' 'रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो 'बहुबाहूरूपादम् | बहुदरं बहुदंष्ट्राकरालं । इत्यादि । गी० ११॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात् । ऋ० १०।८१॥३॥ इस मन्त्र के अनुसार अनन्त पदार्थों का द्रष्टा होने से वह सहस्राक्ष आदि हैं । (२) 'भूमिम् ' भूगोलम् इति दयानन्दः । ब्रह्माण्डगोलरूपान् इतिः सायणः । भुवनकोशस्य भूमिरिति उंवटः । (३) 'दशाङ्गुलम् अति अतिष्ठत् । ' - ' दशाङ्गुलम्' इत्युपलक्षणम् ब्रह्माण्डाद् बहिरपि सर्वतो व्याप्य स्थितः इत्यर्थः । इति सायणः ॥ 'दशागुल' यह उपलक्षण भर है। अर्थात् ब्रह्माण्ड को व्याप कर और दश अंगुल बाहर तक भी वह व्याप्त है, अभिप्राय यह है कि ब्रह्माण्ड से बाहर भी सर्वत्र व्याप्त कर विराजता है । दश च तानि अंगुलानि दशाङ्गुलानीन्द्रियाणि ।केचिदम्यथा रोचयन्ति दशाङ्गुलप्रमाणम् हृदयस्थानम् । अपरे तु नासिकाग्रम् दशांगुलम् । इत्युवट: ॥ दश अंगुल दश इन्द्रिय हैं । आत्मा उनसे परे, उनको विषय गोचर नहीं है । कइयों के मत में हृदय दश अंगुल प्रमाण है वह उसमें विराजता है । कोई नासिका अग्र के आगे दश अंगुल मापते हैं । उवट । पञ्चस्थूलसूक्ष्मभूतानि दशाङ्गुलान्यंगानि यस्य तत् जगत् । इति दया० ॥ पांच स्थूलभूत और पांच सूक्ष्मभूत, इन दस अंगों वाला जगत् 'दशाङ्गुल' कहाता है । वह परमेश्वर इस समस्त जगत् को व्याप कर विराजता है । जैसा लिखा है- वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः तेनेदं पूर्णं पुरुषेण सर्वम् । उप० । यह महर्षि दयानन्द का मत है । पुरुषः- सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः इति सायणः । नारायणाख्य इत्युवटः । सर्वत्र पूर्णो जगदीश्वरः इति दयानन्दः । सायण के मत से सब प्राणियों का समष्टि रूप, ब्रह्माण्ड देह के समान धारण करने वाला विराट नामक पुरुष है । उवट के मत से नारायण नामक पुरुष है । म० दयान्द के मत से - सर्वत्र पूर्ण परमेश्वर पुरुष है । पुरुष: पुरिषादः परिशयः । पूरयतेर्वा पूरयति अन्तरित्यन्तर पुरुषमभिप्रेत्य । यस्मात् परं नापरमस्ति किञ्चित्। यस्मान्नाणीयो न ज्यायोस्ति किञ्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ निरु० प० अ० २ । ख० ३ ॥ नाना इमे वै लोकाः पूं: । अयमेव पुरुषो योऽयं पवते । सोऽस्यां पुरि शेते । तस्मात् परुषः । इति शत० ॥

    ऋषि | देवता | छन्द | स्वर - [ १–१६ ] नारायण ऋषिः । पुरुषो देवता । पुरुषसुक्तम् । १–१५ अनुष्टुप् । गान्धारः ॥ निचृदनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top