यजुर्वेद - अध्याय 20/ मन्त्र 29
ऋषिः - विश्वामित्र ऋषिः
देवता - इन्द्रो देवता
छन्दः - गायत्री
स्वरः - षड्जः
4
धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म्। इन्द्र॑ प्रा॒तर्जु॑षस्व नः॥२९॥
स्वर सहित पद पाठधा॒नाव॑न्त॒मिति॑ धा॒नाऽव॑न्तम्। क॒र॒म्भिण॑म्। अ॒पू॒पव॑न्त॒मित्य॑पू॒पऽव॑न्तम्। उ॒क्थिन॑म्। इन्द्र॑। प्रा॒तः। जु॒ष॒स्व॒। नः॒ ॥२९ ॥
स्वर रहित मन्त्र
धानावन्तङ्करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः ॥
स्वर रहित पद पाठ
धानावन्तमिति धानाऽवन्तम्। करम्भिणम्। अपूपवन्तमित्यपूपऽवन्तम्। उक्थिनम्। इन्द्र। प्रातः। जुषस्व। नः॥२९॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे इन्द्र! त्वं नो धानावन्तं करम्भिणमपूपवन्तमुक्थिनं भक्ष्याद्यन्वितं भोज्यमन्नरसादिकं प्रातर्जुषस्व॥२९॥
पदार्थः -
(धानावन्तम्) सुसंस्कृतैर्धान्यान्नैर्युक्तम् (करम्भिणम्) सुष्ठु क्रियया निष्पन्नम् (अपूपवन्तम्) सुष्ठु सम्पादितापूपसहितम् (उक्थिनम्) प्रशस्तोक्थवाक्यजन्यबोधनिष्पादितम् (इन्द्र) सुखेच्छो विद्यैश्वर्ययुक्तजन (प्रातः) प्रभाते (जुषस्व) सेवस्व (नः) अस्माकम्॥२९॥
भावार्थः - ये विद्याध्यापनोपदेशैः सर्वेषामलङ्कर्त्तारो विश्वोद्धारका विद्वांसो जनाः सुसंस्कृतै रसादिभिर्युक्तान्यन्नादीनि यथासमयं भुञ्जते, ये च तान् विद्यासुशिक्षायुक्तां वाचं ग्राहयेयुस्ते धन्यवादार्हा जायन्ते॥२९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal